________________
भ्रमन्तस्ते प्रक्षीणप्राशुकजलास्तृषाकुला आसादितवन्तो गगनाग्रजाग्रत्तरंगरंगन्नीरं सुरसरित्तीरम् । यत्र क्वापि भ्रमर्यावलीपरिकलिता मंजु गुञ्जन्ति भृंगाः । हंसीवक्त्रेऽर्धजग्धं ददति मृदु बिशं (मृणालदण्डं) क्वापि हृष्टा मरालाः ।। कुर्वंति क्वापि लास्यं जलधरसुहृदो नेत्रपीयूषकल्पं । शोश्रूयंते क्वचिच्च श्रुतिपुटसुखदाः कोकिलानां निनादाः || १|| तत्र तेऽम्मडपरिव्राजकछात्रास्तृडार्ता इति ध्यायंतिस्म-संप्रति नः खलविलसितमिव सलिलं प्राशुकं परिक्षीणम् ॥ • लग्ना तृष्णा प्राणां-तकरी रात्रिचरीवोग्रा || १ || अस्ति सुरसरिति तावत्प्रचुरतरं वारि, किंतु न हि कोऽपि तद्दायकोऽत्र, तद्वयं स्वयं नैव गृह्णीमः, यज्जगृहेऽम्मडगुरुणा सह नियमोऽस्माभिरुपमहावीरं प्राशुकजलपानस्य, अतोऽप्राशुकमंबु वयं न पिबामः, यदागमः जत्थ जलं तत्थ वणं । जत्थ वणं तत्थ निच्छिओ अग्गी || तेऊवाउसहगउ । तसा य पच्चक्खा चेव ||१|| अन्यच्च - एगंमि उदगबिंदुमि । जे जीवा जिणवरेहिं पन्नत्ता | पारेवयमित्ता । जंबुदीवे न मायंति ॥ २॥ तत्पाने पुनरस्माकं । स्वीकृतस्य व्रतस्य हि ।। भवेद्विराधना शेष - दोषाणामेकमास्पदम् ।।१।। यदागमः - वयभंगे गुरुदोसो । थोवस्स य पालणा गुणकरी य ।। भग्गं गरुयंपि वयं । सगडंव न होइ फलहेऊ ||१|| तस्मात्को नाम विज्ञात- तत्त्वोऽकर्तव्यमीदृशम् || एकजन्मकृतेऽनेकजन्मदुःखकृदाचरेत् ॥२॥ उक्तं च- अवि गिरिवरगरुयदुरंत - दुक्खपडणेण जंति पंचत्तं ।। न उणो कुणंति कम्मं । सप्पुरिसा जं न कायव्वं ||9|| अतो वरतरं मृत्युः । सांप्रतं सांप्रतं न तु ।। व्रतं खंडयितुं स्वल्पे-तरकालं प्रपालितम् ।।२।। यदुक्तं- वरं प्रवेष्टुं ज्वलितं हुताशनं । न चापि भंक्तुं चिरसंचितं व्रतम् । वरं हि मृत्युः
ucation International
For Personal & Private Use Only
प्र. २ अम्मडछात्राण व्रताऽखण्डनम्
प्रश्नो.
सटीका
॥२१॥
www.jainelibrary.org