SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ K*** पंचभिर्वियुतं मेऽस्तु । सदा दिग्विरतिव्रतम् ||८|| सचित्तादिकपंचाति - चारे भोगोपभोगके || अकृताकारिते पाना - शने स्तः प्रासुके मम ||९|| मौखर्यप्रमुखैः पंचा- तिचारैः परितो वृतम् || अनर्थदंडकं नैवा - चरिष्यामि कदाचन ||१०|| मनोदुःप्रणिधानादि - पंचातिचारवर्जितम् ।। समाधिना विधास्यामि - तमां सामायिकव्रतम् ॥११॥ प्रेष्यप्रयोगप्रभृति-पंचातिचारवर्जिते ।। व्रते देशावकाशाख्ये । करिष्येऽनारतं रतिम् ||१२|| दुःप्रत्युपेक्षितोत्सर्गा—दिकपंचातिचारकैः ।। रहितं पौषधं कर्ता - वश्यं पर्वतिथिष्वहम् ||१३|| सचित्तक्षेपणमुखं । पंचातिचारवर्जितम् ।। कृत्वातिथिसंविभागम् । साधुभ्योऽद्मि पुरा मुदा || १४ || कर्ममर्ममहाशैल - वज्रधारासहोदरम् || नैव षष्ठात्कनिष्ठं हि । प्रविधातास्म्यहं तपः || १५ || एवमवाप्तपूर्वाणि सम्यक्त्वमूलद्वादशव्रतान्यादाय श्रीवीरभट्टारकं नत्वा स्वं धन्यं मन्वानः सछात्रोऽम्मडः स्वीयाश्रयमगात् । एकदा वसंतर्तुदुःषमासुषमाश्रियमसहमानो दुःषमाकाल इव करालो ग्रीष्मकालोऽवातरत् । यत्रोच्चैर्गोःपतिकरभरस्तापदायी जनानां । हर्षोत्कर्षं जडपरिचयः संततं संतनोति ॥ दोषारंभो भवति नियतं सौख्यसर्वस्वकारी । स्याद्वैरस्यं विरमतितरां नैव तृष्णा कदापि ||१|| तस्य चादिमे ज्येष्ठनाम्नि मासे तेऽम्मडपरिव्राजकशिष्याः कांपिल्यपुरात्पुरिमतालपुरं प्रतस्थिरे, क्रमेण मार्गं क्रामंतो दैवाद्दिग्मूढाः सन्तः प्रापुरेकं दुष्टश्वापदसंचारं कांतारम्। यस्मिन् पुन्नागनागार्जुनतललवलीशालहिंतालजंबू - जंबीराशोकपुगीफलतिलककदल्याम्रमुख्यद्रुमाणाम् ।। शाखाछायासु सांद्रास्वतिबहलतरस्थूरपत्रावलीषु । ध्वांतं ध्वांतारितेजः प्रसरविधुरितं नित्यवासं करोति ॥ १॥ तत्र ससंभ्रमं For Personal & Private Use Only प्र. २ अवतरणं ग्रीष्मकालस्य प्रश्नो. सटीका ॥२०॥ ww.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy