SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ bi * तदनु मुदितेन भूकान्तेन पुनः पत्रपुटममंड्यत, अत्रांतरे नीर-मग्रतोऽग्रतो वहत्सुदूरमपससार । न तु पत्रपुटेऽपतत्। * * ततः किमेतद्वार्यग्रतोऽग्रतो यातीति नृपतिरुत्थाय यावत्सम्यगुपरि दृशं दत्तवान् तावद्वटशाखायां सुप्तोत्थितस्य * कृष्णाहेर्मुखाद्विषबिंदून्निपततः प्रेक्ष्य मापोऽध्यासीत्-तृष्णातरलितस्वांत-श्चेदपास्यमिदं पयः ।। तदामरिष्यमकृत-सुकतो राज्ञः शोकः * नैव संशयः ।।१।। किंचेतस्य शकुंतस्य । परोपकृतिकारिणः ।। ममापकारिणः पश्य। विद्यते कियदन्तरम् ।।२।। * यदेष मत्कृतेऽत्याक्षी-न्महाभागः स्वजीवितम् ।। अहं तु पापो यदमुं । हतवान् प्राणितप्रदम् ।।३।। अत * * एतच्छल्यमिवा-कृत्यं हृदि मदीयके ।। खटत्करिष्यत्याजन्म । न पुनर्विस्मरिष्यति ।।४।। इत्यादि सखेदं विमृशतो * विशांपतेः साधनमप्यागात्, जहर्ष भूपालं निभालनात्, कारयामास च स्नानभोजनादि राजानम् । * ततोऽमात्याद्यैर्विज्ञप्तं- स्वामिन्न क्षणमप्यत्र । स्थितियुक्ता भवत्यतः ।। उत्तिष्ठताऽऽरुहताऽश्वं । यथा यामो * निजं परम् ।।१।। राजाऽपि तदाकर्ण्य तं स्वोपकारिणं पक्षिणं सहाऽऽदायाचलत्, प्रविवेश च पुरं, ततस्तस्य * शुकस्यांगसंस्कारो गोशीर्षचंदनदारुभिः स्वयं नृपो निर्माय जलांजलिं च दत्वा यावत्क्षणमेकं सशोकोऽ * स्थात्तावत्सचिवाद्यैः सविनयं भूपोऽभाष्यत-देव! बंधोरिवामुष्य । शुकस्य प्रेतकर्म किम् ।। व्यधायि * * तत्प्रसद्याशु । यथावृत्तं निवेद्यताम् ।।१।। भूपोऽपि तत्पुरस्तद्वृत्तं निवेदयन्नधिकाकार्यशल्यव्यथितांतः प्रश्नो . करणस्तत्क्षणादेत्योद्यानपालेनाऽरविंदाचार्याऽऽगमनेनाभ्यनंदि, धराधीशोऽपि प्रीतिदानं दत्वा तद्वंदनाय सपौरो ययो । प्रणमनानंतरमुपविष्टे राजादिजने भगवानपि तन्मनोऽनुयायिनी देशनां व्यधात्-हंहो अनादिभव एव । २७५ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy