SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ नृपकथा * कृतार्थयाञ्चक्रुः । राजापि सपौरो गुरोः पार्थात् श्राद्धधर्ममंगीचकार । ततः सर्वेऽपि केवलिनमानम्य स्वं स्वं * प्र.४६ स्थानमगुः । ततः पुण्यसारोऽवसरोचितदानादिधर्मकर्मकर्मठः पुत्रे गृहभारमारोप्य पित्रादियुतः सुनंदकेवलिपार्श्वे - उ.४८ * प्रव्रज्याऽनशनेन देवभूयमगात्, ततो नृभवेऽवतीर्य शिवमवाप । इति पुण्यसारचरितं चतुरा । विनिशम्य शत्रुजय * सम्यग्गुरुभावपूर्वकम्।। समयोचितं वितरणं तनुता-ऽनिशमेव येन भवतां भवेत्सुखम् ।।१। ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावनावसरदाने पुण्यसारकथा ।। अनावसरदानवैषयिकी पुण्यसारकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षट्चत्वारिंशं प्रश्नमाह___ प्र. ४६-आमरणात् किं शल्यम्? व्याख्या-हे भगवन् ! आमरणाद् जीवितान्तं यावत् किं शल्यम्? * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि अष्टचत्वारिंशमुत्तरमाह-प्रच्छन्नं यत्कृतमकार्य, व्याख्या-हे । * वत्स ! प्रच्छन्नं अन्यजनाऽदृष्टो यत्कृतं विहितमकार्यमकृत्यं, यतः प्रच्छन्नाकार्याचरणं न सुखाय, उक्तं के * च-अज्ञानतोऽपि विहित-मकृत्यं देहिनां हृदि ।। खट्खटिति कुर्वत् स्या-छल्यवदुःखदायकम् ।।१।। * अत्रार्थे शत्रुजयनृपकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे महापुरं नाम नगरं, तिष्ठन्तु तावदपराणि पुराणि सर्वा-ण्यप्येककेन प्रश्नो. * हरिणा करिणा च युक्तः।। स्वर्गोऽप्यहं तु बहुधा हयदन्तिसेव्य । इत्युच्चकैर्वहति यन्निजनामसत्यम् ।।१।। तत्र * सटीका * शत्रुजयो नाम राजा, यस्य नामवरगारुडमंत्रा-कर्णनाद्रिपुमहपतिसर्पाः ।। स्तंभिता इव मृता इव कामं । * २७२
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy