SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ******** ******** हेम - कुंभा आनायिता अपि ।। कोशागारे न तिष्ठन्ति । तिष्ठन्ति त्वद्गृहे पुनः ||२|| तदेतान् समुपादाय । व्रज भुंक्ष्व यथारुचि || मा भीरभीप्सितं दीना - दीनां देहि सदैव हि ||३|| इत्युक्त्वा श्रेष्ठिपदप्रदानपूर्वमूर्वीपतिस्तान् सर्वान् कनककलशान् दत्वा सोत्सवं पुण्यसारं स्वागारं प्रति विससर्ज । पुण्यसारोऽपि सर्वत्र जायमानबहुमानः श्रियं सत्पात्रादिदानेन सफलयन्नन्येद्युरुद्याने समवसृतं सुनंदकेवलिनं श्रुत्वा पित्रादिपरिच्छदस्तद्वंदनाय गतः । राजापि सपौरस्तन्निनंसार्थमगात्, प्रारेभे भगवताप्येवं देशना - भो भो भव्या एकमेवात्र पात्र - त्या मर्त्यामर्त्यनिर्वाणलक्ष्म्याः ।। क्रीडागारं भावसारं कुरुध्वं । यस्मादासूत्र्यर्हदाद्यैरपीदम् ।।१।। इत्यादिदेशनां शृण्वति सभालोके धनमित्रः स्वपुत्रप्राग्भवस्वरूपं केवलिनमपृच्छत्-भगवन्नमुना पुण्य-सारेण मम सूनुना ।। पूर्वजन्मनि कीदृक्षं । धर्मकर्म विनिर्ममे || १ || येनास्यासन् श्रियोऽमेया । राजादिजनमान्यता ।। भाग्यं तथा च सौभाग्यं । तत्प्रसद्य निगद्यताम् ||२|| भगवानप्यवादीत् श्रेष्ठिस्तव सुतः पुण्य- सारोऽत्रैव पुरे पुरा ॥ भूर्धदाभिख्योऽभवत्प्रकृतिभद्रकः ||१|| कदाचिदस्य सदने । कश्चिन्मासिकपारणे ।। मुमुक्षुराययो साक्षा-ज्जंगमः कल्पवृक्षवत् ||२|| ततः समुल्लसद्भाव-भरनिर्भरभानसः ।। अकारयन्मुनेर्भक्तैः । प्रासुकैरेष पारणम् ।।३।। तत्पुण्येन विपद्यासा - वासीत् कल्पे तृतीयके ।। ततश्युत्वैष ते पुत्रो - ऽभूदहो दानजं फलं ||४|| इत्याकर्ण्य स्मृतप्राग्भवः श्रेष्ठिभूः प्रांजलिर्गुरून् व्यजिज्ञपत् - पूज्या यदेककस्यापि । प्रदानस्येदृशं फलम् ।। तत्संप्रति श्रावकत्वं । मयि विन्यस्यतांतराम् ||9|| ततो गुरवः श्रावकधर्मदानेन तं सपरिकरं पुण्यसारं For Personal & Private Use Only ucation International **** प्र. ४५ उ. ४७ स्मृत प्राग्भवः श्रेष्ठिभूः प्रश्नो. सटीका २७१ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy