________________
यदागास्तदैवास्म–दग्रे किमिति नोदितम् ? ।। मूढधीरप्यभ्यधात् - स्वामिपादास्तदानीं न। समयः समजायत ।।१।। विचित्रोऽप्युवाच - आः पापमुष्य कार्यस्य । कीदृशः समयो भवेत् ॥ मूढमतिरप्याहस्म - प्रभो त्वयोक्तं प्रस्तावे । रहो वाच्यं न चान्यथा ||१|| ततो विचित्रः सखेदं सहासं च व्यचिन्तयत् एवंविधः कदाप्येव । न मे दृष्टिपथं गतः । न च कर्णांतिकीभूतो । यथासौ मूढबुद्धिकः || १ || उक्तं च- यस्य नास्ति स्वयं प्रज्ञा । शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य । दर्पणः किं करिष्यति ||१|| इति चिन्तनानन्तरमेवोत्थाय स यावद्गृहमागात्तावत्सर्वमपि वेश्म भस्मीभूतं तेन दृष्टं ततस्तं बाहौ धृत्वा गृहपतिरुचे - अप्रस्तावज्ञ ! पश्य त्वं । विलंबकथनात्तव || अस्मदीयमिदं कीदृ-ग्धाम भस्मत्वमाश्रयत् ||१|| तथाप्यतः परं ब्रूमो । यत्राग्नेर्धूमसंभवः ।। शिखा वा दृश्यते तत्र । क्षेप्यं यत्तज्जलादिकम् ||२|| सोऽपि मूढमतिस्तद्गिरममन्यत, एकदा विचित्रः · कृतस्नानः केशपाशधूपायनाय जालिकालयं धूपदहनं पुरः संस्थाप्य निविष्टः धूपमधाक्षित् । तदा धूपधूमे च प्रसरति सति मूढधीस्तद्वचः स्मृतिपरः सहसैव कुत्सितपात्रस्थं मलिनं पानीयमानीय विचित्रशिरसि चिक्षेप । सोऽपि क्रुद्धोऽभ्यधत्त - यथावसरवाग्जल्पा- नभिज्ञ! किमिदं कृतम् ।। मूढमतिरप्यवदत् - प्रभो यद्भवता पूर्वमादिष्टं तत्कृतं मया ।।१।। ततोऽधिकं कुपितो विचित्रो गलेऽर्धचंद्रं दत्वा गृहात्तं निरवासयत् मूढमतिरपि स्वनाम - सत्यताप्रकटनादिवावसरोचितभणनवचनविकलो रोलंरोलं कालालयालंकरणी बभूव । इति मूढमतेर्निदर्शनं । विनिशम्याऽवसरोचितं वचः । प्रकटीकुरुतानिशं बुधा । न यथा यात जनेषु हास्यताम् ।।१।।
।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ प्रस्तावोचितवचोमूके मूढमतिकथा ।।
****
Education International
*****
प्र. ४३
उ. ४५
मूढमते
रप्रस्तावज्ञता
प्रश्नो सटीका
२६६
www.jainelibrary.org