________________
**********
पाषाणखंडेन तमेवाभनक्, वृषभीबंधायादिष्टश्च स वरत्रया धेनुमेवावेष्टयत्, कर्हिचिद्बहिः क्षेत्रखलकलिंपनाय स शिरः स्थितगोमयपिटकया चेटिकया सह शीर्षस्थवारिघटः प्रेषितः सन्नित्याख्यत् प्रभो तत्र प्रयातेन । किं विधेयं मया भण || विचित्रोऽप्यूचे - यदियं कुरुते दासी । तन्निर्माप्यं त्वयापि हि ||१|| ततः क्षेत्रगतया चेट्या गोमयपिटकं मस्तकादधश्चिक्षिपे । तेनाप्यूर्वस्थेनैवाधः क्षिप्तो घटोऽप्यभनक्, अखिलेऽपि जले गलिते रुषारुणाऽऽस्यया दास्या चपेटया स हतः, सोऽपि यदियं विधत्ते तत्त्वया कार्यमिति स्वामिवाक्यस्मरणात्तामपि चपेटया बाढं जघान, ततो नंष्ट्वा साऽगाद् गृहं, सोऽप्याययौ, समं वेश्मनि विशन्तौ स्वामिना किमेतदिति पृष्टौ तौ यथावृत्तमूचतुः, जहास सर्वमपि कुटुम्बं एवं परमार्थानभिज्ञेन तेन प्रभुः प्रसभमदूयत । अन्यदा सदसि स्थितं स्वामिनमुपेत्य स गाढस्वरं व्याजहार, स्वामिन्नद्य गृहे रब्बा । चंद्रहासाभिधानका ।। निष्पन्नास्ति तदुत्तिष्ठोत्तिष्ठोत्सूरो भवेद् भृशम् ||१|| तद्वार्त्तया हीतः सोऽपि गृहमेत्य तमेवमशिक्षयत्-अरेरे मूढ समयानुसारेण त्वया रहः ।। कर्णे लगित्वा वक्तव्यं । मन्दं मन्दं न तूच्चकैः ||१|| तेनाप्येवं स्वीकृते कदाचिदास्थानस्थस्य विचित्रस्य गृहे लग्नं प्रदीपनं तदानीं सदनमनुष्यैः शिक्षयित्वा स तत्पार्श्वे प्रेषितः, सोऽपि गत्वा जनाकुलमास्थानमालोक्य नाद्याप्यवसर इति मुहूर्तमात्रं स्थित्वा ततः कर्णाभ्यर्णीभूय नीचैरूचे- हे प्रभो ! भाणितं युष्मत्पुरतो गृहमानुषैः ।। यद्वेश्मन्यलगद्वह्निः । कल्पांतदहनोपमः ||१|| तद्भवद्भिर्नृभिः सार्धं । तद्विध्यापनहेतवे ।। रयादेव समेतव्यं । भस्मसाद्भविताऽन्यथा ||२|| तत् श्रुत्वा विचित्रः कोपादलपत्-रे
ucation International.
For Personal & Private Use Only
प्र. ४३
उ. ४५
मूढमते
मूढता
प्रश्नो.
सटीका
२६५
www.jainelibrary.org