________________
प्र.४३ उ.४५
मूढमते
श्चेष्टा
* वाच्यं त्वयोच्चकैः ।।१।। ओमित्युदीर्य स कदर्यधीरचालीत्, प्राप्तश्च तरुलतादिवरेण्यमरण्यं, तत्र मृगग्रहणाय * * धृतपाशेषु व्याधेषु गीतामृतलांपट्यात्तदासन्नदेशमागतेषु मृगेषु स मूकमतल्लिको जोत्कार इति तारस्वरं के * व्याजहार, ततस्तच्छ्रवणत्रस्तेषु हरिणेषु रुषारुणेक्षणैर्मुगयुभिर्यष्टिमुष्ट्यिादिना गाढं ताडितः स एवमुवाच-हंहो - - पुरुषाः सकृपा । अहमेवं शिक्षितो भृशं मात्रा ।। तन्मां मुञ्चत मुञ्चत । मा मां ताडयत ताडयत ।।१।। ते ततस्तैर्मुक्तः स पुनरुक्तवान्- सुधियोऽन्यत्र गतोऽहं । कां कां चेष्टां करोमि तद् ब्रूत ।। तैरप्यूचे-भद्र ! ने * जनौघे दृष्टे । न्यग्भूयत इति परं तत्त्वम् ।।१।। तदूरीकृत्य स विवक्षितपुरपरिसरमाप । तत्र पूर्वं स्तेनाऽ- पहृतरजकांशुकगवेषणार्थं द्वित्रान्नरान् संमुखमागच्छतो वीक्ष्य स पशुदेश्यो नीचैर्नीचैर्गंतुमारेभे, तैरपि नरैरयमेव * चौर इति बुद्ध्वा बद्ध्वा स गाढं कुट्टितः, सद्भावे प्रोक्ते मुक्त्वैवं सोऽपाठि-अरे मूर्ख ! मनुष्याणां । समवाये * विलोकिते ।। युष्माकं सदैवं भूया-दिति वाच्यमसंशयम् ।।१।। सोऽपि प्रमाणमिति कृत्वा पुरोपरि चचाल,
संमुखं मृतकमागच्छवीक्ष्याऽनवसरज्ञो युष्माकं सदैवं भूयादिति भूयो भूयो जल्पन्नहो दुरात्मायं क्षते क्षारक्षेपकृदिति * वृंदस्थैर्नरैः स कणमूढकवत्कुट्टितः, स्वाभिप्रायभणनात्तं मैवं कदापि भूयादिति शिक्षयित्वा तेऽप्युज्झाञ्चक्रुः । ते * ततः सोऽग्रे व्रजन् वेवाहिकवृंदं पश्यन् कदापि मैवं भूयादिति पुनः पुनर्लपन् पशुवत्तन्नरैरपि पिट्टितः *
तदन्वेतावद्भिः स्वगुणलब्धैरुत्सवैः पुरं प्रविशन् पितृमित्रस्य विचित्रराजपुत्रस्य गृहमगात्, ननाम च तत्रोपविष्टं * पितुर्मित्रं, तेनापि स्वपार्श्वे कृतसत्कारोऽस्थापि । अन्यदा द्रम्मं भंजयित्वाऽऽगछेति तेनादिष्टः स मूढः ।
प्रश्नो .
सटीका २६४
E
ducation International
For Personal & Private Use Only
www.jainelibrary.org