________________
*********
米米米米米米米米米米
स्वर्गप्रदोऽन्यस्तु | मोक्षसौख्यैककारणम् ||५० || तद्भद्रेऽस्मन्मुखादीदृग्विनिशम्याऽधुना तव ।। धर्मनिर्माणविधये । चेतोवृत्तिरभून्न वा ॥ ५१।। क्षुल्लकांबाप्यवादीत्-गुरवोऽष्टोत्तरशतवेलम्बः कंठघंटिका ।। उपर्यधश्च गच्छन्ति । गणिता नापरं श्रुतम् ||१|| अहोऽचिकित्स्यव्याधिरिवास्मदुपदेशौषधेरप्यसाध्यैवेयं वृद्धेति ध्यात्वा गुरवोऽन्यत्र विजहुः । जरत्यपि कर्णव्यापारपारीणापि तत्तादृक्परमार्थहितोपदेशवचनाश्रवणप्रकटितबाधिर्या मृत्वा दुःखभागभूत् । इत्थं क्षुल्लकजननीवृत्तं । भव्या अवधार्यांतश्चित्तम् ।। हितवाक्श्रवणविधौ बाधिर्यं । त्यजत यथा वः स्याच्छं वर्यम् ||१||
॥ इत्याचार्य श्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ हितोपदेशाकर्णनबधिरे क्षुल्लकमातृकथा ।। हितोपदेशाऽऽकर्णनबधिरवैषयिकी क्षुल्लकमातृकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्त्रिचत्वारिंशं प्रश्नमाहप्र. ४३ - को मूकः ? व्याख्या:- हे भगवन् ! कः प्राणी मूकः तादृग्विकलजल्पन् विकल इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि पञ्चचत्वारिंशमुत्तरमाह - यः काले प्रियाणि वक्तुं न जानाति ।। व्याख्याःहे वत्स ! यो मनुष्यः काले प्रस्तावे प्रियाणि जनमनः प्रीतिकराणि अर्थाद्वचांसि वक्तुं भाषितुं न जानाति न वेत्ति, यतः अवसरविम्हयकरवयणबुल्लिवि जे न जाणंति । इह महियलि पंडियजणिहिं ते मूया वुच्वंति ।। अत्रार्थे मूढमतिकथा, तथाहि
....... इहैव जंबूद्वीपे द्वीपे भारते वर्षे सुधान्यो नाम ग्रामः नानाप्रकारान् किल धान्यराशी-नालोक्य लोकाः
प्र. ४३
उ. ४५
मूकत्वे
मूढमतिका
प्रश्नो
सटीका
२६२
library.org