________________
***********
*******
गुरुवचनोपादानवैषयिकीं रत्नसारनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वितीयं प्रश्नमाह -
प्र० २ - 'हेयमपि च किम् ? व्याख्या - हे भगवन् ! हेयं त्याज्यं किम् ? अपिशब्दश्चशब्दश्च पूरणार्थे निश्चयार्थो वा, इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वितीयमुत्तरमाह - अकार्यम्, व्याख्या - हे वत्स ! न क्रियते न विधीयते विवेकिभिरित्यकार्यं, इहलोकपरलोकविरुद्धोऽर्थः । यतः - कर्तव्यमेव कर्तव्यं । प्राणैः कंठगतैरपि ॥ अकर्तव्यं न कर्तव्यं । प्राणैः कंठगतैरपि ॥ १॥ तत्र इहलोकविरुद्धानि सर्वजननिंदाऋजुधर्मोपहासेत्यादीनि, यदागमः - सव्वस्स चेव निंदा । विसेसओ तह य गुणसमिद्धाणं ।। उजुधम्मकराणं | हसणं रीढा जणपूयणिज्जाणं ||9|| बहुजणविरुद्धसंगो | वेसादायारलंघणं चेव । उट्ठल्लणभोगो य तहा । दाणाई पयडमन्नेओ ।।२।। साहुवसणं मित्तो । सोसइ सामत्थंमि तह अपडियारो || एमाइयाइ इत्थं । लोयविरुद्धाई हेयाई ||३|| परलोकविरुद्धानि तु मिथ्यादर्शनाविरत्याद्यासेवनानि, यदुक्तं - मिच्छाइमोहियमणो । परलोए पावए महादुक्खं । जह जालंतरपडिओ । मीणो कट्टं तडप्फडइ ||१|| एतत्सेवनादुग्रदुर्गतिपातः, अतोऽकार्यं हेयमेव । अत्रार्थे अम्मडपरिव्राजकछात्रकथा, तथाहि
-
इहैव जंबूद्वीपे द्वीपे भारते वर्षे कांपिल्यं नाम नगरम्, यत्र जन्म चरणं च । तथा ज्ञानं विमलजिनस्य ॥ भव्याः कथयत संजा - तान्याऽऽनंदाय न कस्य ||१|| तत्राऽम्मडो नाम परिव्राट्, यं जगन्मनुजविस्मयावहा । वैक्रियप्रभृतिलब्धयोऽश्रयन् ॥ क्षीरनीरधिमिव स्फुत्तरो - ल्लोलजालकलिता महापगाः || १|| इतश्च सिद्धार्थ
For Personal & Private Use Only
Jain Education Internationa
प्र. २ त्याज्य
इहलोक - विरुद्धः
प्रश्नो.
सटीका
119211
www.jainelibrary.org