SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्र.४२ उ.४४ क्षुल्लकमातृ कथा * प्र.४२-को बधिरः ? व्याख्या-हे भगवन् ! सकर्णोऽपि को बधिरो बाधिर्यगुणदूषितः ? इति प्रश्ने * शिष्येण कृते गुरुरपि तदनुयायि चतुश्चत्वारिंशमुत्तरमाह-यः शृणोति न हितानि, व्याख्या हे वत्स ! यः पुमान् । र हितान्यायतिसुखदान्यर्थादुपदेशवचांसि न शृणोति नाऽकर्णयति, स एव बधिरो नापरः स्वभावबाधिर्यगुणदूषितः । * उक्तं च- जे णो मुणंति गुरुवयणं न चैव कुर्वति ते । सवणबलजुया वि हु । बहिरा वुच्चंति धीरेहिं ॥१॥ * अत्रार्थे क्षुल्लकमातृकथा, तथाहिर इहैव जंबूद्वीपे द्वीपे भारते वर्षे कोऽपि गच्छः, यस्त्रिदशद्रुरिवो-ल्लसत्कल्याणसच्छायः ॥ निखिला । भिलषितदान-विधिप्रीणितजनसमवायः ॥१॥ तत्र केचनाऽऽचार्याः, यैः प्रावृषेण्यांबुधरैरिवामितं । निरस्य । * संतापमबालकालजम् ।। वाक्यामृतौधैर्भविनां मनोवनं । सुखोल्लसत्पल्लवशालि निर्ममे ।।१॥ तेषां भगवतां के * शिष्यानागमग्रंथानध्यापयतां भव्यान् प्रबोधयतां ययौ विशालः कालः, एकदैकेन क्षुल्लेन विज्ञप्ता एवं गुरवः-* * भगवन्नमुकग्रामे । ममैकास्ति प्रसूः परम् ।। सार्हन्मतानभिज्ञाऽतो-ऽस्याः प्रबोधो विधीयताम् ।।१।। समये कर्तार * * इत्युदित्वाऽन्यदा सूरयो विहरन्तस्तं ग्राममगुः, प्राप्ताश्च क्षुल्लकसहितास्तद्गृहं, तयाप्यासनं दत्तं, निवष्टाः प्रतिलिख्य * * तत्राचार्याः, धर्मलाभिता सा गुरुभिः, तत्प्रतिबोधाय प्रारब्धा चैवं देशना-हे भद्रेऽनाद्यनंतोऽयं । संसारक्षार-* * सागरः ॥ जन्ममृत्युजराशोक-मुख्यदुःखजलाविलः ।।१।। अतो जीवाश्च प्राक्सूक्ष्म-निगोदेष्वतिदुःखिताः ।। * गमयंत्यनन्तं कालं । मिथ्यात्वादिविमोहिताः ।।२।। ततश्चोवर्तिताः स्थूल-निगोदेष्वार्द्रकादिषु ।। सहन्ते छेदभेदाद्यं। प्रश्नो. सटीका ॥२५॥ E ducation International For Personal & Private se Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy