SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Kk ************ * चरित्रं । चंदनबालाया अतिचित्रम् ।। शश्वत्त्यागविधौ प्रयतध्वं । व्यसनाऽपगमं येन लभध्वम् ।।१।। प्र.४१ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सर्वव्यसनविनाशित्यागे चंदनबालाकथा ।। उ.४३ इंदुषेण * सर्वव्यसनविनाशित्यागवैषयिकी चंदनबालाकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकचत्वारिंशं प्रश्नमाह बिंदुषण प्र.४१-कोऽन्धः ? व्याख्या हे भगवन् ! कः पुमानधो दृग्विहीनः ? इति प्रश्ने शिष्येण कृते गुरुरपि * कथा * तदनुयायि त्रिचत्वारिंशमुत्तरमाह-योऽकार्यरतः । व्याख्या हे वत्स ! यः कश्चिज्जनोऽकार्ये शिष्टजनत्याज्येऽकर्तव्ये * * रत आसक्तः, उक्तं च-मुक्त्वा यो धर्मकर्तव्य-मकर्तव्ये प्रवर्तते । सोऽन्धः प्ररूपितः सर्वै-रपि सर्वज्ञपुंगवैः * ॥१॥ अतः स एव तत्त्वतोऽन्धो न तु नेत्रविकलः, यतस्तस्य प्राग्भवकृतदुष्कृतकर्मजनितत्वादधत्वम् । अत्रार्थे * * इंदुषेणबिंदुषेणकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे रत्नपुरं नाम नगरं, यत्रापणश्रेणिषु भूरि भूरि-लभ्यानि रत्नानि बहूनि . * दृष्ट्वा ।। वास्तव्यलोकाः सलिलाऽवशेषं । रत्नाकरं वेत्त्यपरोऽपि लोकः ।।१।। तत्र श्रीषेणो नाम राजा, * * कोशश्रिया दत्ततमप्रमोदया । रथाऽश्वपत्तीभघटाप्रतिष्ठया ।। यः सेनया च प्रसभं विभूषितो । निनाय लोकेर • निजनामसत्यताम् ।।१।। तस्याभिनंदिता नाम राज्ञी, यस्या विशालं विमलं विलोचन-द्वयं समालोक्य कुरंग- प्रश्नो. * नायिकाः ।। स्वकीयदृग्निंदनदुःस्थिताऽऽशया । अद्याप्यरण्यादिषु कुर्वते स्थितिम् ।।१।। तयोरिंदुषेणबिंदुषेणनामानौ * सटीका * नंदनौ, कदाचिदमरांगनातोऽप्यधिकरूपलावण्यामनंगसेनां वेश्यां विलोक्य तदासक्तस्वातौ मिथोऽकलहायतां, * ॥२५६॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy