________________
* पूर्णमभिग्रहं मत्वा चंदनापुरः स्वपाणिपात्रमधारयत्, तयापि भावनया भगवतः पाणिपञ (पात्रे पाठा.) न्यस्ताः * प्र.४० * कुल्माषा हेमस्थालस्थनीलमणितुलामलञ्चक्रुः । तदानीं दिव्यानुभावाद् विडम्बितकलापिकलापो बालाया मौलौ * उ.४२ ना प्रादुरासीन्नव्यः केशपाशः, आयसश्चरणगतो निगडः स्वर्णनूपुरतामगात्, दंडीखंडवासांसि देवदूष्यश्रियमशिश्रयन्, र प्रभुपारणक
महोत्सवः * कंबाप्रहाराश्च रत्नमयाभरणीबभूवुः, अहो सर्वव्यसनापहारी सत्पात्रत्यागः ! उक्तं च-जलज्वलनसिंहेभ-राक्षसादिभयं से * क्षयम् ।। सत्पात्रत्यागतो याति । वातादभ्रततिर्यथा ।।१।। अत्रान्तरे सौधर्माधिपादयो देवाः सदेव्यः प्रमोदात्तत्रैत्य के - देवदुंदुभिनिर्घोषश्चेलोत्क्षेपोऽहो दानमहो दानमिति जयध्वनिः सार्द्धद्वादशस्वर्णरत्नगंधांबुवृष्टि इति पंचदिव्यानि । * प्रकटीकृत्य दृष्टिहस्तकटीपादन्यासभासुरनृत्यपूर्वं तानमानलय-मूर्छनाबंधुरं परमेश्वरगुणग्रामस्फीतं गीतं कृतवन्तः, * * एवंविधे पारणकमहे जायमाने हर्षप्रकर्षचंचुरैर्मृगावती-सुगुप्तमंत्रिनंदापौरादिभिः समं समागते सति शतानीके * * नरवरे सौधर्मेश्वरो बंदिवच्चंदनामेवमस्तवीत्-भद्रेऽहं भवतीं मन्ये । कृतपुण्यां यया त्वया ।। पारणं जगतां हर्ष-र के कारणं कारितः प्रभुः ।।१।। इतश्च चंपापुरीभंगे धारिणीदेव्याः कंचुकी मृगावत्याः समं समेतस्तत्र तां वसुमती में के दृष्ट्वा ज्ञात्वा च तक्रमलग्नस्तथाऽरौत्सीद्यथा पौराणां दृगश्रुभिरकालप्रावृट्कालायितं, राज्ञापि रोदनहेतुं सौविदल्लः के * पृष्ट इत्यभाषिष्ट-दधिवाहनधारिण्योः । सुतां वसुमतीमिमाम् ।। दुःस्थावस्थागतां दृष्ट्वा । दुःखेन रुदितोऽस्म्यहम् +
प्रश्नो . ॥१।। तत् श्रुत्वा नृपोऽप्यूचे- कंचुकिन्नियमेवात्र । पवित्रचरिता स्फुटम् ।। यया कुल्माषदानेन । पूरितोऽभिग्रहः ।
सटीका * प्रभोः ।।१।। मृगावत्यपि तां यामिसुतां मत्वा हर्षविषादवशादित्यूचे-वत्से रयात्समागच्छ ! मदुत्संगमलंकुरु ॥ हा के
* ॥२५४॥
TANEducation