________________
सति मूला नापिताच्चंदनां मुंडितां, लोहकारान्निगडितांघ्रि दंडीखंडवस्त्रां लंबकंबाहतां च कारयित्वापवरकान्तः क्षिप्त्वा च परिवारपुरस्तादित्याहस्म - रे रे यः कोऽपि युष्माकं । मध्ये वृत्तान्तमेतकम् ।। श्रेष्ठिनः पुरतो वक्ता । तं प्राप्स्यामि यमान्तिकम् ||१|| जाते च प्रदोषे हट्टाहमागतेन श्रेष्ठिना चंदनाऽद्य किं न दृश्यते ? इत्युदितः परिच्छदो मूलाभयाद्यावत् किमपि नोचे तावत् श्रेष्ठी दध्यौ - स्वकीयाभिर्वयस्याभिः । समं क्वाऽपि हि चंदना ॥ क्रीडाविनोदं तन्वाना । भविष्यति न संशयः ||१|| निश्यपि पृष्टः परिवारो यावन्न किंचिदूचे तावत् श्रेष्ठी क्वाऽपि चंदना सुप्ता भवितेति निश्चिकाय, द्वितीयेऽप्यह्नि आगतेन श्रेष्ठिना तदनवेक्षणात्प्राग्वत्पृष्टः परिवारो यावन्नोचिवान् तावत् श्रेष्ठी क्वाऽपि कार्ये व्यग्रा भवित्रीति विमृशंस्तृतीयेऽपि दिने समेतस्तामपश्यन् रोषादित्याख्यात्-अरेरे भवतां मध्ये । यः कश्चिद्वेत्ति चंदनाम् || सोऽस्मदग्रे समाख्यातु । नो वा दंडो विधास्यते ॥१॥ परिच्छदोऽपि तदरुंतुदगिरं श्रुत्वा मूलाभीतोऽध्यासीत् - चेद्वच्मीदं तदा मूला । द्वेष्टि नो वा धनावहः || क्रियते कोऽधुनोपाय । इतो व्याघ्र इतस्तटी ||9|| इति मौनवति परिकरे तदंतःस्था काचिद् वृद्धा मूलाभयमुत्सृज्येत्यचिन्तयत् - गतप्राया मम प्राणा - स्तदेतैर्विशरारुभिः ।। अस्याः कोऽप्युपकारः स्यात्तदा लब्धं न किं मया ? ||१|| इति निश्चित्य मूलाकुविलसितमुक्त्वा यत्राऽऽस्ते सा तदपवरकमदर्शयत् । श्रेष्ठ्यपि तद्द्वारमुद्घाट्य रोदनाच्छून्यदृशं निशान्ते निशाकान्तमूर्तिमिव विच्छायश्रियं सशृंखलक्रमां मंडितमौलिं क्षुत्तृषाक्षामकुक्षिं तां वीक्ष्य विषण्ण इत्याहस्म - वत्से ! मा गा विषादाख्य-निषादस्य दुरात्मनः ।। गोचरत्वं यतो जीवैर्निजं कर्मैव
For Personal & Private Use Only
प्र. ४०
उ. ४२
श्रेष्ठिकृता चंदनाचिन्ता
प्रश्नो.
सटीका
॥२५२॥
library.org