________________
प्र.४० उ.४२ नंदायाः खेदकारणम्
* यः केनापि न पूर्यते ॥१॥ अत्रान्तरे गृहाऽऽगतेनाऽमात्येन चिंतासत्रं कलत्रं वीक्ष्य संभ्रान्तेनेत्यूचे-देवि ! किं ते * * वचोऽलोपि । मयका वाऽपरेण वा ।। यद्येवं दृश्यसे शोका-नलप्लुष्टमुखांबुजा ||१।। नंदाप्यवादीत्-जीवेश ! -
न त्वया कश्चि-दपराधलवोऽपि हि ।। मयि प्रकटयांचक्रे । नापरेणापि केनचित् ।।१।। किंत्वेकमेव खेदस्य । * कारणं मम विद्यते ।। यद्वीरोऽभिग्रहाऽपूर्त्या । विधत्ते नैव पारणम् ।।२।। तत्रैशलेयदेवस्याऽभिग्रहं कर्मनिग्रहम् । र * विद्धि यस्मादनुक्तोऽपि । बुधैरर्थः प्रबुध्यते ॥३॥ यदुक्तं-उदीरितोऽर्थः पशुनापि गृह्यते । हयाश्च नागाश्च के * वहन्ति नोदिताः ।। अनुक्तमप्यूहति पंडितो जनः । परेंगितज्ञानफला हि बुद्धयः ।।१।। तत् श्रुत्वा सचिवोऽप्यूचे-*
प्राणप्रिये शुचं मुञ्च । प्रमोदमुररीकुरु ॥ तथा यतिष्ये वीरस्य । यथा ज्ञास्याम्यभिग्रहम् ।।१।। अत्रांतरे तत्राऽऽयातया र * मृगावत्याश्चेट्या तत्सर्वं श्रुत्वा गत्वा स्वामिन्यै न्यवेद्यत, साऽपि तदाकर्णनोत्पन्नाऽमंदखेदा भूमींदुनागत्येत्यपृच्छ्यत* देवि ! कैरविणीवाह्नि । सायं कमलिनीव यत् ।। विच्छाया वीक्ष्यसे तत्र । भवत्याः किमु कारणम् ॥१॥
देव्यप्यवादीत्-स्वामिन्नयं शुचो हेतु-र्यत्सर्वत्र भ्रमन्नपि ।। अपूर्णाऽभिग्रहो वीरः । करोति न हि पारणम् ।।१।। * तत् सिद्धार्थतनुजस्याऽभिग्रहो ज्ञायतामयम् ।। अन्यथा बुद्धिमन्मंत्रि-प्राज्यराज्यश्रिया किमु ? ।।२।। नृपोऽप्यूचे* देवि ! त्वयाऽनिशं माद्य-प्रमादाभिधनिद्रया ।। मुद्तिाक्षियुगः साधु-साधु जागरितोऽस्म्यहम् ।।१।।
तत्प्रातर्वर्द्धमानस्य । विज्ञायाहमभिग्रहम् ॥ श्रीवीरं कारयिष्यामि । पारणं गुणकारणम् ।।२।। ततः प्रातः * * सेवार्थमुपेतः सुगुप्तोऽमात्यः प्रभुपारणाय राज्ञा पृष्ट इत्यभाषिष्ट-धरित्रीशात्र कर्तव्ये । निशिता अपि मे
प्रश्नो. सटीका ॥२४॥
For Personal & Private Use Only