SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ******** अनर्थफलासंगतमानसवैषयिकीं करटकुरुटकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकोनचत्वारिंशं प्रश्नमाह प्र. ३९ - का सुखावहा ? व्याख्या - हे भगवन् ! का सुखमावहतीति सुखावहा सौख्यहेतुः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि एकचत्वारिंशमुत्तरमाह - मैत्री, व्याख्या - हे वत्स ! मैत्री सज्जनैः सह प्रीतिः, न तु दुर्जनैः, तैः समं मैत्री क्रियमाणाऽनर्थाय स्यात्, उक्तं च-त्यज दुर्जनसंसर्गं । भज साधुसमागमम् ।। कुरु सर्वोत्तमं धर्मं । स्मर नित्यमनित्यताम् ||१|| साधुभिस्तु सह मैत्री क्रियमाणा सुखाय जायते, यतः– सज्जनैः सह सांगत्यं । पंडितैः सह संकथा || अलुब्धैः सह मित्रत्वं । कुर्वाणो नावसीदति ||१|| अत्रार्थे मेघकुमारकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यत्रार्हतः श्रीमुनिसुव्रतस्या-भवज्जगत्त जन्म ।। दीक्षा च जीवाऽभयदानदक्षा । ज्ञानं पुनः केवलनामधेयम् ॥ १॥ तत्र श्रेणिको नाम राजा, यस्य प्रतापस्य मिषाद्गभस्ति-माली दिने तापयतेऽरिपालीम् ॥ कीर्तेश्छलाच्छीतकरस्तु रात्रौ । स्फीतेन शीतेन तुदत्यजस्रम् ||१|| तस्य धारिणी नाम राज्ञी, यस्याः सदैवातिविकाशशालिनीं । वक्त्रस्य लक्ष्मी क्षणिकां स्वकस्य तु ।। संवीक्ष्य संतापवशात्सरोजिनी । ह्यद्यापि रोदित्यलिसंभवै रवैः ||१|| सैकदा निरानंदा पत्या दृष्ट्वेत्यभाष्यतप्राणप्रिये किमेवं त्वं । विलक्षास्या निरीक्ष्यसे || तद् ब्रूहि नाहमीदृक्षा-वस्थां द्रष्टुं तव क्षमः ||१|| राज्ञ्यप्याहस्म - स्वामिन् व्यलोकयं रात्रौ । दुःपूरं स्वप्नमीदृशं ॥ यन्मेघे वर्षतीभस्था । ददे दानं पुरेऽखिले ||१|| तदाकर्ण्य नृपो For Personal & Private Use Only प्र. ३९ उ. ४१ मेघकुमार कथा प्रश्नो. सटीका ॥२४३॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy