SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ * तयोर्नतिपूर्वमुवाच-भगवन्ताविदं स्थान-मयोग्यं भवतोस्ततः ॥ अन्यत्रोपाश्रये श्रेष्ठे । निवासः प्रविधीयताम् * प्र.३८ * ॥१॥ मुञ्चतु वारिदो वारि । सर्वजीवसुखावहम् ।। जैनद्वेषी जनोऽयं तु । मुदमुद्वहतान्तराम् ।।२।। इत्याकर्ण्य * उ.४० तावपि मुनी गजाविव क्रोधामातस्वातौ प्रशमवनं समूलमुन्मूलयन्तावित्यवोचतां-भूपात्र ! पुर्यामावाभ्यां । न समुद्यत क्रोधवह्निः * रुद्धं घनवर्षणम् ।। आकर्ण्यते धुभाकर्णि । दुर्वाक्यानां परम्परा ||१।। त्यजावः सर्वथा नैत-दभिग्रहपरायणौ ॥ प्रविध्यापनीयः * स्थानं सकर्णः को नाम । व्रतभंगं चिकीर्षति ।।२।। अतः क एष वोऽत्रार्थे । निरर्थकग्रहाग्रहः ।। यन्नगर्यां न * पर्जन्य-वृष्टिर्मुनितपोवशात् ।।३।। अथ चेन्नो तपस्तुष्टा । कापि देव्यब्दवर्षणम् ।। न विधत्ते तदा वृष्टिं । र में करोत्वस्मद्गिरानया ।।४।। वर्ष मेघ कुणालायां । दिनानि दश पञ्च च ।। मुष्टि-प्रमाणधाराभिर्यथा रात्रौ तथा से दिवा ।।५।। इति तद्वचोऽनंतरमेव पुरीदेव्या तथा मेघवृष्टिः पुर्यंतर्बहिश्च चक्रे यथा प्रचुरतरवारिप्रवाहैर्वहद्भिर्नृपो * लोकः करटकुरुटौ च प्रवाह्य समुद्रांतरक्षिप्यंत । ततस्तत्र तौ यती भवितव्यता-योगादसंगतमानसौ नमस्काराऽऽ लोचनावियुक्तौ विपद्य सप्तमनरकपृथिव्यां माघवत्यां कालाख्ये नरकावासे छेदनभेदनादिदुःखदुःखितौ । * नारकावदभताम | अहो ! अनर्थफलमसंगतं मनः, यतः-क्रोधः परितापकरः । सर्वस्योद्वेगकारकः क्रोधः ।।* * वैरानुषंगजनकः । क्रोधः सुगतिविनाशकरः ।।१।। इति भविकमनुष्याः प्रावृषेण्यांबुमुग्वत् । करटकुरुटवृत्तं * - श्रोत्रमार्गे प्रणीय ।। निजमनसि समुद्यत्क्रोधवह्नि प्रविध्या-पयत यदि समीहा स्वर्गसौख्यादिके वः ।।१।। सटीका ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अनर्थफलासंगतमानसे करटकुरुटकथा ।। ॥२४२॥ प्रश्नो. Jan Education International For Personal & Prvale Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy