________________
कथनम्
* मदीयार्थ-सार्थापहृतिकारणम् ।। अधुनैव समाहूय । सागरः परिपृच्छ्यताम् ।।४।। राज्ञाप्याकारितो विमलद्रव्या- * प्र.३७ पहतिहेतुं पृष्टः सागरोऽपि नतिपूर्वं विज्ञपयतिस्म-देव ! देवप्रभुप्राय-कलाकलितविग्रह ! किं मां पृच्छसि के
नृपाय कारण* पृच्छाशु । तातमेवास्य दुर्धियः ।।१।। विमलोऽप्याहस्य-आः शठशेखर हठतः । स्वयमेव हि हरसि मम धनं * * सर्वम् ।। पृच्छयसि पुनः पितरं । तदहो तव कापि कपटकला ॥१॥ ततो राज्ञा सर्वं कारणं पृष्टः सागरोऽपि - * सविस्तरमचकथत् । तच्छ्रवणोत्पन्नविस्मयो नृपोऽप्यूचे-हंहो सागरदत्तैत-ददृष्टाश्रुतपूर्वकम् ।। कथं त्वया समज्ञायि। के * तन्निवेदय संप्रति ।।१।। सागरोऽप्यगदत्-देवाकर्णय मयका । गंत्री नवचक्ररेखयाऽज्ञायि ।। तत्र रसालफलाल्यपि । *
पथि पतितपलालगंधवशात् ।।१।। सारथिरप्यवजज्ञे । पुनः पुनः शौचकरणतो विप्रः ।। कुष्ठी च पदक्षालन* पानीये मक्षिकापातात् ॥२।। गंत्र्या दक्षिणभागे । गलिवृषस्तोत्रखंडपातवशात् ।। ज्ञातो रजसि प्रतिमित-*
वृषणक्षणतः स शंडश्च ।।३।। वामे भागे तु वृषः । खंजो बुबुधे पदानुसारेण ।। वेल्लकखेटनकारी । श्वपचोऽपि * सदरखेटनतः ॥४॥ बालापि हि साधाना-वरुह्य वेल्लकरथाद्वदरिकायाः ॥ विपिन उपविश्य वक्त्रं । प्रक्षाल्य विधाय गंडूषम् ||५|| दक्षिणहस्तस्यावष्टंभो-त्थानप्रदर्शनात्सुतसूः ।। अरुणमुखशौचसलिलाऽवलोकनाद्री घुसृणरागवती ।।६।। बदरीकंटकलग्ना-रुणवासः सूत्रखंडदर्शनतः ।। परिहितकौसुंभपटा । स्थलभुवि पश्चान्मुखांघ्रिततेः *
प्रश्नो. ७।। अवलोकनस्य वशतः । स्वीयेन प्रियतमेन सह रुष्टा ।। वेणीच्युतकेसरातो बकुलस्रक्शालिनी ज्ञाता ।।८।।
सटीका चतुर्भिः कलापकम् । इत्याकर्ण्य पुनरुत्पन्नाश्चर्यो नृपवर्योऽब्रवीत्-भो सागर ! कथं ज्ञाता । त्वया वेल्लकगंत्रिका ।। ॥२३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org