________________
********
****************
प्रसद्य मद्वचनमादधासि तदा । एनमपारं व्यसनाकूपारं सन्तरामितराम् || १ || हास्ये यदुच्यते तत् । क्रियते न तथेति सागरस्याग्रे ।। गत्वा निवेदय यथा । निवर्तते कुग्रहात्सोऽस्मात् ॥ २॥ कमलोऽप्यलपत्-वत्स ! विभूषा वचसां । सत्यं तत्त्वं स्मर स्वकीयगिरः || उपहसनीयो माभू-र्लोके शुद्धां च धेहि धियम् ||१|| यस्मात्तरला कमला । अतस्त्वमेतासु मुञ्च परिमूर्च्छाम् । तस्मै चैतां वितर । स्वगिरो न चलन्ति सन्तो हि ॥ २ ॥ यदुक्तंअलसायंते हि वि सज्जणेहि जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरियव्व न हु अन्नहा हुंति ॥ किंच-यत्तेन सागरेण वाक्यं प्रोक्तं तत्तथैव जातं, क्वापि न तस्य क्षूणं दृष्टं व्योमारविंदमिव । किंच - हिमहिमकरकरधवले । कुलेऽस्मदीये कदापि केनापि । अनृतभणितिप्रकारै-रकारि न कलंकपंको हि ||१|| ततः स्वल्पजीवितकृते । ह्यनल्पकालोद्भवं यशो विशदम् ।। मा मलिनीकुरु तस्मा - तस्मै तहि पण्यं स्वम् ॥२॥ इत्याकर्णनाद् भृकुटिविकटमुख विमलो ऽवोचत् - ताताऽहितोऽसि मे त्वं । यत्सागरदत्ते पक्षपातपरः । तन्निजवेश्मन्येव । स्थेयं या नु मत्तप्तिः || १ || इत्युक्त्वा विमलः पूर्वमेवोर्वीपालपार्श्वं गत्वा नत्वा च प्राभृतदानपूर्वमुपाविशत् । राजापि तमुपलक्ष्य प्राख्यत्-महाभाग ! वरिवर्ति । शरीरे तव कौशलम् । किं दृष्टश्चिरकालेन । तत्सद्यः प्रणिगद्यताम् ।।१।। विमलोऽपि प्रांजलिर्व्यजिज्ञपत्-स्वामिन् विनामिसामंत - पालिपालितशासन ! ।। युष्मत्प्रसादप्रासाद - वासिनः कुशलं मम ।।१।। किंत्वकालांबुमुग्वृष्ट्या । देशांतरगतस्य मे ।। वक्रीभूतग्रहस्येव । दिवसा बहवोऽलगन् ||२|| घनं धनमुपार्ज्यागां । यावद्युष्मत्पुरांतिकम् ।। तावत्सागरदत्तेन । हृतं तदखिलं बलात् || ३ || तत्पार्थिव !
For Personal & Private Use Only
प्र. ३७
उ. ३९
तातहित
शिक्षाकर्णन
भृकुटिविकट मुखः कमलः
प्रश्नो.
सटीका
॥२३६॥
www.jainelibrary.org