SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ * विनियोत्रितो गलिबलीवर्दः ।। वामे तु वामपादे । खंजो वृषभो वहति भारम् ।।३।। खेटयति कृतास्पर्शो । मातंगो * प्र.३७ वेल्लकं ततः पश्चात् ।। कस्याप्यायाता स्त्री । रुष्टा घुसृणांगरागवती ॥४॥ शेखरितबकुलमाला | कौसुंभपटा र व्रणांकितशरीरा ।। आसन्नप्रसवांगज-सूर्गच्छति वेल्लकारूढा ॥५।। युग्मम् ।। विमलोऽप्येवं श्रुत्वा सेर्प्य इव तं कृत कृतसंधौ तौ * प्रत्यूचे-वयस्य ! ज्ञानिवद्यत्त्वं । ब्रूषे तत्तव नोचितम् ॥ यस्मादसत्प्रलापाः स्यु-र्न कदाचन साधवः ।।१।। * सागरोऽप्याहस्म-भ्रातर्यादृच्छकं वाक्यं । न वदामि कदापि हि || जानीहि सत्यमेवैत-त्सर्वज्ञवचनं यथा ॥१॥ अथ चेन्न प्रतीतिस्ते । मद्वाक्ये तर्हि वेगतः ।। गत्वा विलोक्यते गंत्री । यतः सन्निहितास्ति सा ॥२।। विमलोऽपि ॐ पुनः सावज्ञमूचे-बंधो किमिहाज्ञ इवा-वलंबसे धृष्टतामतिस्पष्टाम् ।। यद्वा शठेन साकं । जल्पन्नहमपि शठो * बाढम् ।।१॥ ततोऽनेनैव च्छलेनास्य सर्वमपि धनं गृह्णामीति विमृश्य पुनरपि विमलः स्माह-भ्रातर्यदि तवेदं * * स्या-त्सत्यं वाक्यं तदा त्वया || मत्पण्यमखिलं ग्राह्य-मन्यथा तु मया तव ॥१॥ प्रमाणमिति करतलेन + * करतलमाहत्य सागरो जगौ-कमलश्रेष्ठिन्नस्मिन् । प्रयोजने साक्षिको भवानेव ।। श्रेष्ठ्यप्यूचे-सागर ! यद्येष * जड-स्तथा धियां वारिधिर्भवानपि किम् ? ।।१।। इति कमलेनोक्ते विमलोऽप्यजल्पत्-तात ! तव युज्यते के * किं । मद्विषये लाघवं समानेतुम् ।। किंत्वाभिमानी ज्ञानीवायं । सागरो व्याकरोत्येवम् ।।१।। तदमुष्य * प्रश्नो . पक्षपातं । विधातुमुचितं न ते परं यदि मे ।। अयमंघ्रितले निपतति । तथापि संधां न मुञ्चामि ॥२॥ सटीका * सागरोऽप्यंतर्हसन्नाहस्म-विमलाखिलेऽपि भवतः । क्रयाणके स्वात्मसात्कृते मयका || तव पादयुगे शुनका । ॐ ॥२३४॥ For Personal & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy