SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्र.३७ उ.३९ सरलाशयं सागरं वंचयन् कपटपटु विमलः सोऽन्यदा पित्रा वार्यमाणोऽपि सार्थसामग्रीमासूत्र्यार्थोपार्जनार्थं देशान्तरं प्रति प्रतस्थे । प्रत्यहं पथि प्रय * कियद्भिर्दिनैः परदेशमंडनं मलयपुरमाप । तत्र क्रयाणकं विक्रीय प्रतिपण्यमादाय स्वपुरं प्रति सार्थकलित-* चलितोऽन्तरा जलधरजलभरसंप्लावितेऽवनितले कतिचिद्दिनान्याच्छादनिकां कृत्वास्थात् । इतश्च सागरदत्तः * सार्थवाहो वाहिनीपतिमुत्तीर्य तत्रैव समायातः, स्वपुरवास्येष इति विमलेन सादरं सोऽभ्यधायि-भ्रातः । * स्वागमनेनास्म-त्सार्थमाशु कृतार्थय ।। यथावाभ्यां हि युक्ताभ्यां । गम्यते स्वपुरं प्रति ।।१।। सागरोऽपि तत् के * श्रुत्वा स्माह-बंधो युक्तं त्वया प्रोक्तं । परं मां पक्षमेककम् ।। प्रतीक्षस्व यथा सार्थ-वस्तुनः क्रयविक्रयम् ।।१।। विधाय भवता साकं । वार्तालापाननेकशः ।। विदधानः प्रयामीदृग् । योगः पुण्येन लभ्यते ।।२।। युग्मम् ।। * विमलोऽपि तद्गिरमंगीकृत्य सागरसार्थमध्यस्थ एवास्थात् । तत्र सागरेण समं भुंजानस्तत्पण्यक्रयविक्रयकाले के * करसंकेतं छन्नं तन्वन् स्वं निपुणं मन्वानः सरलाशयं सागरं वंचयमानः कपटपटुर्विमलो हेमदशसाहस्रीमुपार्जयत् । * जाते च पूर्णे पक्षे तौ प्रेमपरौ स्वस्वसार्थसनाथौ सागरविमलौ चेलिवांसौ । ततोऽन्यदा तौ हयारूढो पथि * सार्थात्पुरः प्रयान्तौ तनयस्नेहादभिमुखमायान्तं विमलजनकं कमलमालोक्य प्रमोदमेदुरौ प्रणेमतुः । सोऽपि सदृशा में * दृशा तावालिंग्य ताभ्यां कलितश्चलितो यावत्स्वपुरसन्मुखं तावत्सागरो विमलमलपत्-हंहो वयस्यपुंगव ! भवदग्रे के * किमपि सांप्रतं वच्मि ।। दृष्टमिवादृष्टमहं । तस्मात् शृणु सावधानमनाः ।।१।। यन्नः पुरतो गन्त्री । याति र पचेलिमरसालफलकलिता ।। तत्सारथिर्द्विजन्मा । त्वग्दूषणदूषितशरीरः ॥२।। तस्या दक्षिणभागे । समस्ति प्रश्नो. सटीका ॥२३३॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy