________________
*******
******
पादयोर्मंडनं नूपुरं, तथा वाचां वाणीनां किं मंडनं विभूषा ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्येकोनचत्वारिंशमुत्तरमाह-सत्यं,, व्याख्या - हे वत्स ! सत्यं सत्यवचनं, असत्यं त्वनंतभवापायाय, यतः -असत्यवचनाद्वैरविषादाप्रत्ययादयः ।। प्रादुःषन्ति न के दोषाः । कुपथ्याद्व्याधयो यथा ||१|| निगोदेष्वपि तिर्यक्षु । तथा नरकवासिषु ।। उत्पद्यन्ते मृषावाद - प्रसादेन शरीरिणः ||२|| सत्यभाषणात्पुनः पुमानैहिकविशिष्टफलभाक् स्यात्, उक्तं च-विश्वस्यापि स वल्लभो गुणगणास्तं संश्रयन्तेऽन्वहं । तेनेयं समलंकृता वसुमती तस्मै नमः संततम् ॥ तस्माद्धन्यतरः समस्ति न परस्तस्यानुगा कामधुक । तस्मिन्नाश्रयतां यशांसि दधते यः सत्यवाचं जनः || १ || अतो विदुषा संकटेऽपि सत्यमेव वाच्यं, नानृतमिति, अत्रार्थे कमलश्रेष्ठिकथा, तथाहि—
I
इहैव जंबूद्वीपे द्वीपे भारते वर्षे विजयपुरं नाम नगरं यत्र रत्नमयहारिमंदिरा-भांशुनाशितनिशातमोभरे ॥ केवलं व्यधित दीपमंडलीं । मंगलैकविधये वधूजनः ॥9॥ तत्र यशोजलधिर्नाम नृपः, यः पयोनिधिरिवाद्भुतपद्मः । सर्वदैव पुरुषोत्तमसेव्यः ।। नैकधावसुधारातिगभीरः । कस्य तोषविधये न बभूव ॥ १|| तन्मान्यः कमलो नाम श्रेष्ठी, यो निजकुलवनसिंचनकमलः । सप्तक्षेत्रीविनिहितकमलः ॥ पाणिचरणरुचिजितनवकमलः । साधूपास्त्याक्षतनरकमलः ||१|| तस्य कमलश्रीर्नाम पत्नी, यदीयवक्त्रं सुतरामपंकं । स्वं पंकशंकाकलुषं विमृश्य ।। ह्रीतं न मुञ्चत्यधुनापि पद्मं । तडागदुर्गं जलपुरदुर्गम् ||१|| तयोर्विमलो नाम सुनुः, विश्वत्रयेऽप्यस्य कदापि तुल्यो - परो नरो नो चटिता करे नः ।। इतीव लोभानृतमुख्यदोषै - र्निषेवितो यश्चिरकालमेव ||१||
प्र. ३७
उ. ३९
कमल
श्रेष्ठिकथा
प्रश्नो.
सटीका
॥२३२॥