SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ देवदिना गमनमहः * कृत्यं विनंक्ष्यति ॥१॥ इत्युदीर्य दत्तो यक्षेण धरणीधराभिधः स्वीयः किंकरः, सोऽपि द्रव्यादिपूर्णं तूर्णं * प्र.३४ * विमानं विकुळ पंचभिभार्याभिर्युतं सुप्तमेव देवदिन्नं तत्राध्यारोपयत् । ततो रयाद्गच्छति सति विमाने के तत्किंकिणीक्वाणविद्राणनिद्रेण देवदिन्नेन किमेतद् ? इति पृष्टा त्रैलोक्यदेवी न्यवेदयत्तत्स्वरूपम् । ततः प्राप्तो * * देवदिन्नो ग्रामाऽऽरामादि पश्यन् स्वपुरं, ददर्श च साध्वीप्रतिश्रयांतः प्रतिमास्थां बालपंडितां, त्रैलोक्यदेव्यापि । * तथाऽवस्थां तां वीक्ष्य तदुपरि क्षिप्तं देवदूष्यं, सापि किमेतद् ? इति संभ्रांतस्वांता 'नमो अरिहंताणं' इति * पारितकायोत्सर्गा यावदुपर्यालोकयत्तावन्नभःस्थं विमानं वीक्ष्य रयादुपाश्रयांतः प्रविश्य साध्वीपुरस्तत्स्वरूपं * - प्रारूपयत् । ता अपि त्वत्तपोऽनुभावाद्भावी देवागम इति यावदवदन् तावत्तत्रैवावतीर्णं विमानं, ततो भानूदये । * विमानादुत्तीर्य सभार्यो देवदिन्नो नैषेधिकीभणनपूर्वमुपाश्रयं प्रविश्याऽनंसीत्साध्वीवृन्दं, बालपंडिताऽपि के * स्वकांताऽऽलोकनोद्भवत्प्रमोदसंभ्रमाभ्यवंद्यत पंचभिरपि ताभिः । ततो जनमुखात्तद्व्यतिकरमाकर्ण्य तूर्णमेवाऽऽगतेषु * नृपादिषु धरणीधरं सुरं विसृज्य द्रव्याधुपादाय षड्भार्यासहितो देवदिन्नो निर्निदानं दानं ददानः सोत्सवं स्वावासम* विशत् । जायमाने च तदागमनमहे परिवारेण वणिक्पुत्रस्वरूपं पृष्टो देवदिन्नो यावत्किमपि नोचे, तावत् । * त्रैलोक्यदेवी मा रसे विरसोऽस्त्विति विचिंत्योवाच-हंहो आर्यसुतोऽत्राशु । विमानेन समागतः ।। ते च भूमिप्रचारेण । * * क्रमेणैष्यन्ति सुस्थिताः ।।१।। अहो आकस्मिकवचनचातुरी मद्भार्याया इति रञ्जितोऽजनिष्ट श्रेष्ठिजन्मा । सटीका * कियद्दिनानंतरं पुनर्वणिक्पुत्रव्यतिकरं पृच्छति जने देवदिन्नोऽपि बालपंडितायोग्यदत्तचिंतामणिखचितांगुलीय- ॥२२२॥ प्रश्नो. E ducation International For Personal & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy