________________
प्र.३४ उ.३६ यक्षेण कारितो विवाह महामहः
* देवदिन्नदर्शनादजनि सहजरूपा, ततः पंचापि ता देवदिन्नानुरागिणीविभाव्य यक्षोऽभाषत-वत्साः किमेष *
यष्मभ्यं । कान्तश्चेतसि रोचते ।। ता अप्यचः-तातायं रोचतेऽस्मभ्यं । पद्मिनीभ्य इवार्यमा ।।१।। यक्षोऽप्याख्यत- * पुत्र्योऽग्रेऽप्यस्य कान्ताऽस्ति । सतीजनमतल्लिका ।। अतः सपत्नीभावोऽयं । युष्माकं किमु रोचते ? ॥२॥ का । * नाम ज्येष्ठभगिनीं न मन्यत इत्युक्तवतीषु तासु यक्षश्चंद्रशेखरखेचरचक्रवर्तिनं सपरिकरमानाय्य देवदिन्नेन *
सहाऽऽकारयत्तासां विवाहमहामहम् । अहो पुण्यफलम ! धम्म विहणू जाउ जहि भावइ सव्वत्थवि परिपिक्खइ * आवइं । धम्मवंत्तु नरु जहिं जहिं गच्छइ तहिं तहिं सुंदर सुक्खइ पिच्छइ ॥ विततार च तासामलंकारिवस्तुवन्दं, त ततस्तात ! ज्येष्ठस्वसुरपि किमपि गवेष्यत इति त्रैलोक्यदेव्योक्तो यक्षः समर्पयदेकं मुद्रारलं, पुनस्तयोक्तं * * तात ! भगिन्या इयन्मानं दीयमानं हि हासकृत्, यक्षोऽप्याचचक्षे-वत्से वांछितदं चिंता-रत्नमस्त्यत्र दुर्लभम् ॥
तदनु मुदितया तया जग्रहे तन्मुद्रारलं, चंद्रशेखरोऽपि यक्षं सन्मान्य गतः स्वस्थानं, ततस्ताभिर्विकुर्विते प्रासादे * * विचित्रक्रीडया विलस्य सुप्तो देवदिन्नः ।। - इतश्च भवितव्यतावशात् किमस्मत्स्वसा करोतीत्यवलोकिन्या विद्यया त्रैलोक्यदेव्येवमपश्यत् यत्परिपूर्णोऽ- र * वधिसमयः, नागान्ममेशः, अतः प्रातरादास्येऽनशनमिति कृतनिश्चयामलाविलांशुका दृष्टा प्रतिमास्थिता * * बालपंडिता । ही अगच्छत्यार्यपुत्रे सानशनं ग्रहीष्यतीति ध्यात्वा गत्वा च यक्षाभ्यर्णं त्रैलोक्यदेवी सर्वं स्वरूपमूचे। *
यक्षोऽपि ज्ञाततद्व्यतिकर इत्याहस्म-वत्से गच्छ रयादेव । गतप्राया विभावरी ॥ विलम्बे क्रियमाणे हि । सर्वं
प्रश्नो. सटीका ॥२२१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org