SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ******** राजन्नेकस्य वीरस्या-दां त्रीनपि वरानहम् ||१|| ततो नृपः सखेदः स्वसदनमासदत्, प्रातश्च नृपदर्शनाय गतेन देवदिन्नेन सकलमपि सशोकं लोकं वीक्ष्य भद्र ! किमेतदित्युक्तः कश्चित्पुमानूचे - महाभागाद्य नः क्षोणि- पालः केनापि हेतुना ।। प्रविक्ष्यति हुताशांत - स्तेनायं दुःखितो जनः ||१|| ततो भद्र मा विषीद विधास्यामि सर्वमप्यूर्वीद्रलोकमशोकमित्यभिधाय गत्वा चोपनृपं देवदिन्नोऽवादीत् - राजन् किमेतदारब्धं । प्राकृतस्योचितं त्वया ॥ राजाप्याहस्म - भद्र प्रयोजनं किं ते ऽनया मत्सत्कचिंतया ||१|| देवदिन्नोऽप्यूचे कारणेन महाराज ! पृच्छ्यसे न पुनर्वृथा । अतो निवेदनं देव । स्वोचितं स्यान्मदग्रतः || २ || नृपोऽपि तन्निर्बंधादभ्यधात् - भद्रैकं सर्वदा दानव्यसनं मम विद्यते ॥ तच्च यक्षप्रसत्त्यैवे - यत्समयं पूरितं मया ॥१॥ अद्य मे तत्प्रसादेन । विना संपद्यते न तत् ।। अतस्तद्रहितत्वेन । किं कार्यं जीवितेन मे ? ||२|| देवदिन्नोऽप्यवदत् - राजन्नतः परं पूर्व- रीत्या विश्राणनं मम ।। सिद्ध्याजन्म प्रदातव्य - माराध्यो न तु गुह्यकः ||१|| राज्ञापि तद्वचसि स्वीकृते देवदिन्नस्तद्वनमेत्य सरसि स्नात्वा यावत्क्षणमेकमूर्ध्वमस्थात्, तावत्कयाचित्कात्यायिन्या स्त्रिया महाभाग ! कुतः किमर्थमत्रायात इत्युदितो देवदिन्नोऽवादीत्-भद्रे ! मनोरथाभ्यर्णे । वारिराशितटादहम् || सुस्थितेनाऽमरेगाऽत्र । प्रहितः समुपागतः ||१|| ततः सा सहर्षाऽऽख्यत् - यद्येवं भद्र तर्ह्यत्र । सहकारतरोस्तले । निषीद त्वं क्षणं येन । कथयामि किमप्यहम् ।।१।। तदनूपविष्टे देवदिन्ने साप्युपविश्येत्यूचे- धीमन् ! वैताढ्यभूमीद्रे । पुरे गगनवल्लभे ।। अस्ति स्वस्तिमयश्चंद्रशेखरः खेचरेश्वरः ||१|| तस्य प्राणप्रियाः पञ्च । श्रीकांता स्वर्णमालिका || विद्युन्माला मेघमाला । सुतारा Jain Education International For Personal & Private Use Only *本 प्र. ३४ उ. ३६ राज्ञा स्वीकृतं वचः प्रश्नो. सटीका ॥२१९॥ rary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy