SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ******** राजन्नेकस्य वीरस्या-दां त्रीनपि वरानहम् ||१|| ततो नृपः सखेदः स्वसदनमासदत्, प्रातश्च नृपदर्शनाय गतेन देवदिन्नेन सकलमपि सशोकं लोकं वीक्ष्य भद्र ! किमेतदित्युक्तः कश्चित्पुमानूचे - महाभागाद्य नः क्षोणि- पालः केनापि हेतुना ।। प्रविक्ष्यति हुताशांत - स्तेनायं दुःखितो जनः ||१|| ततो भद्र मा विषीद विधास्यामि सर्वमप्यूर्वीद्रलोकमशोकमित्यभिधाय गत्वा चोपनृपं देवदिन्नोऽवादीत् - राजन् किमेतदारब्धं । प्राकृतस्योचितं त्वया ॥ राजाप्याहस्म - भद्र प्रयोजनं किं ते ऽनया मत्सत्कचिंतया ||१|| देवदिन्नोऽप्यूचे कारणेन महाराज ! पृच्छ्यसे न पुनर्वृथा । अतो निवेदनं देव । स्वोचितं स्यान्मदग्रतः || २ || नृपोऽपि तन्निर्बंधादभ्यधात् - भद्रैकं सर्वदा दानव्यसनं मम विद्यते ॥ तच्च यक्षप्रसत्त्यैवे - यत्समयं पूरितं मया ॥१॥ अद्य मे तत्प्रसादेन । विना संपद्यते न तत् ।। अतस्तद्रहितत्वेन । किं कार्यं जीवितेन मे ? ||२|| देवदिन्नोऽप्यवदत् - राजन्नतः परं पूर्व- रीत्या विश्राणनं मम ।। सिद्ध्याजन्म प्रदातव्य - माराध्यो न तु गुह्यकः ||१|| राज्ञापि तद्वचसि स्वीकृते देवदिन्नस्तद्वनमेत्य सरसि स्नात्वा यावत्क्षणमेकमूर्ध्वमस्थात्, तावत्कयाचित्कात्यायिन्या स्त्रिया महाभाग ! कुतः किमर्थमत्रायात इत्युदितो देवदिन्नोऽवादीत्-भद्रे ! मनोरथाभ्यर्णे । वारिराशितटादहम् || सुस्थितेनाऽमरेगाऽत्र । प्रहितः समुपागतः ||१|| ततः सा सहर्षाऽऽख्यत् - यद्येवं भद्र तर्ह्यत्र । सहकारतरोस्तले । निषीद त्वं क्षणं येन । कथयामि किमप्यहम् ।।१।। तदनूपविष्टे देवदिन्ने साप्युपविश्येत्यूचे- धीमन् ! वैताढ्यभूमीद्रे । पुरे गगनवल्लभे ।। अस्ति स्वस्तिमयश्चंद्रशेखरः खेचरेश्वरः ||१|| तस्य प्राणप्रियाः पञ्च । श्रीकांता स्वर्णमालिका || विद्युन्माला मेघमाला । सुतारा Jain Education International For Personal & Private Use Only *本 प्र. ३४ उ. ३६ राज्ञा स्वीकृतं वचः प्रश्नो. सटीका ॥२१९॥ rary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy