SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ - मम स्वं दर्शनं देहि । विधेहि करुणां मयि ।।१।। इत्युक्त्वा स्वमक्षिपत्क्षितिपः प्रज्वलज्जवलनज्वालोच्चंडे कुंडे, प्र.३४ * यक्षेणापि कुंडिकांभसा सिक्तोऽजनि पुनर्नवी भूजानिः, वृणु वरमिति यक्षेणोक्ते राज्ञाभिदधे-गुह्यकाधिप ! * उ.३६ भक्तिरंजितो * यद्येवं । तर्हि युष्पत्प्रसादतः । दद्यामखिललोकेभ्यो । वांछितार्थाच्चतुर्गुणम् ।।१।। पुण्यजनेनाऽप्येवमस्त्वित्युक्तः * यक्षः र सहर्षः क्षितिपो नतिं कृत्वा स्वधाम जगाम । ततो द्वितीयदिनसंध्यायामेव शक्रभूशक्रवद्यक्षपूजां कृत्वा सत्त्वाधिको । * देवदिन्नोऽग्निकुंडे झंपामदात् । ततः शक्रनृपवद्यक्षेण सज्जीकृतो वरं वृण्वित्युक्तश्च देवदिन्नोऽपि भवत्पार्श्वे इदं के * वरं तिष्ठत्वेवमुक्त्वा द्वितीयवेलायामप्यग्निकुंडे स्वमक्षेप्सीत् । ततः प्राग्वद्यक्षेण प्रगुणीकृतो वरं याचस्वेत्युदितश्चायमपि * । प्रसादस्त्वदंतिके तिष्ठत्विति भणनानंतरं पुनर्देवदिन्नस्तृतीयवेलायामप्यग्निकुंडेऽपतत्, ततः प्रागिवोज्जीवितस्तथैव । * यक्षेणोक्तश्चैषोऽपि वरो भवदभ्यर्णे तिष्ठत्विति निगद्य यावद्देवदिन्नस्तुर्यवेलायामपि वह्निकुंडपाताय प्रावर्तत रे तावद्वटवासी देवदिन्नं हस्ते धृत्वा प्रोचे-धीमन् । शृणु पुरा भक्ति-रंजितेन बिडौजसा ।। इयं शक्तिर्वरत्रय्या । * सहिता मे ददे मदा ।।१।। अस्याः प्रभावतः पुंसां । प्रदातुं त्रीन वारानलम् ।। नाधिकांस्तद्वरत्रय्या-नयाभिमतमर्थय । * ॥२॥ देवदिन्नोऽप्यवदत-यक्षैवं चेदादिमवरेण या शक्रभभजे सिद्धिः ।। दत्ता तां मम वितरैक-वारसंसाधितेन * सदा ।।१।। इतरवरेण तु सिद्धि-मयि जीवति नाऽपराय दातव्या ।। तार्तीयिकवरेण च । कार्ये जातेऽर्थयिष्ये * प्रश्नो. * त्वाम् ।।३।। प्रमाणमिति यक्षेणाऽपि कक्षीकृते स्थितस्तत्रैव प्रच्छन्नं देवदिन्नः, अत्रांतरे समेतः शक्रनृपस्तथैवाग्निकुंडे * मीका - झंपां वितरन् यक्षेण निषिद्ध इत्याख्यत्-यक्षराज ! किमेवं हि । निवारयसि मां नतम् ।। गुह्यकोऽप्यजल्पत्- ॥२१८॥ education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy