SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ************** इत्यादिजल्पपरैः पौरैर्दृश्यमाणानि विचित्रछत्राणीव विमानानि पुरोपरि तस्थुः । ततः शुकोऽभ्येत्य सभानिविष्टं सकष्टं भूपमेवमवर्धयत्-जवाद्विषादमुज्यतां । हृदि प्रमुद्विधीयताम् ।। यदेति देव ते सुतः । कलत्रखेचरान्वितः ॥१॥ नृपोऽपि केकीव स्वतनयाऽऽगमनपर्जन्यगर्जारवश्रवणाऽऽविर्भवत्प्रमोदभरः पुरातर्महोत्सवमेवमकारयत् -स्थाने स्थाने प्रपंच्यन्ते । चा रोमांचदायिनः ॥ प्रतिवेश्म निवेश्यन्ते । रंभास्तंभाः सतोरणाः ||१|| मौक्तिकानां विधीयन्ते । स्वस्तिकानि सहस्रशः । पुष्पस्रजोऽवलंब्यन्ते । प्रोल्लास्यन्ते ध्वजापटाः ||२|| वितन्यन्ते वितानानि । रच्यन्ते पटमंडपाः ।। राजवर्त्मानि सिच्यन्ते । श्रीखंडघुसृणद्रवैः || ३|| दृगानंदप्रदं नृत्यं । कार्यन्ते पणयोषितः ।। सोसूत्र्यन्ते मृदंगादि - वादित्रपरिवादिनम् ||४|| गीयते सधवावर्गैः । कलं धवलमंगलम् || भट्टथट्टैश्च पठ्यन्ते । बिरुदावलयोऽनघाः ।।५।। इत्यादिमहे जायमाने कुमारः पौरान् पौरांगनाश्च विस्मापयंस्तातप्रासादं प्राविशत्, ततो विमानादुत्तीर्य सपरिजनो भूजानिजन्मा पितृमातृपादानवन्दत, ताभ्यामपि प्रमोदात्कुमारमभिनन्द्य प्रोक्तम्, वत्स त्वदीयविरहानलसंभवानि । सोढानि यान्यहह दुःखकदंबकानि । नीतानि तानि भवदागमनामृतेन । नाशं तदात्मचरितं वद सप्रपञ्चम् ||१|| न नाम नामाददते हि साधव इति कुमारभ्रूसंज्ञया सर्वमप्युर्वीपतिपुत्रचरितं कीरः प्रकटीचकार । नृपोऽपि तदाकर्णनोद्भवदानंदो नंदनमवादीत् - वत्सैका पालिता सम्यक् । क्षमाऽन्या या निशम्यते ।। तां पालयितुमस्माकं । स्वांतमुत्कंठतेतराम् ||१|| त्वयि भारं तदाद्याया । आरोपयितुमुत्सहे । द्वितीयस्याः पुनर्भारं । वोढुं वाञ्छामि सम्प्रति ॥ २॥ स च व्रतेन पाल्यः स्या - दतो राज्यं समाश्रय ॥ स सुतेषु For Personal & Private Use Only प्र. १ कुमारप्रवेश महोत्सवं पितृव्रतग्रहणेच्छा प्रश्नो. सटीका 119 3 11 www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy