________________
******************************
युक्तमिदं तेन । सुमित्रेण सुसूत्रितम् । तदैतत्क्रियतां यस्मा - दीदृक्षा एव धीसखाः ||१|| आरोपितमहोद्दंड - कोदंडस्य तवाग्रतः ।। स्थातुं न शक्तः शक्रोऽपि । किं पुनस्तस्य विद्विषः ||२|| तत्तं जित्वा निजं राज्यं । स्वीकुरुष्वेति निर्मिते ।। नर्तिष्यति भवत्कीर्ति - नर्तकी विश्वमंडपे ॥ ३ ॥ नृपोऽपि तत् श्रुत्वा प्रोचे - हंहो महाभटाः सम्य - गाकर्णयत मद्वचः ।। साम्राज्यमामुखे कांतं । नरकांतं ततः परम् ||१|| तदेतस्य कृते स्वीयं । प्रारब्धं धर्मकर्म नो । त्यजामि यामिनीकान्त–कांतिकान्तयशस्करम् ॥२॥ यदुक्तं - प्रारभ्यते न खलु विघ्नभयेन नीचैः । प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।। विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः । प्रारब्धमुत्तमजना न परित्यजन्ति ||१|| इत्युदीर्य नृपवर्यो गतविषादोऽग्रत एवाऽचलत्, यतः - संपदि यस्य न हर्षो । विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं । जनयति जननी सुतं विरलम् ||१|| तत्परिवारस्तु धर्मकर्मणि भग्नोत्साहः स्वस्वमानुषशुद्धये पुरं प्रति ववले । उक्तं च- सप्पुरिसुच्चिय वसणं । सहंति सव्वंपि नेय कापुरिसा || पुहवीच्चिय सहइ जओ | वज्जनिवायं न उण तंतू ||१|| नवरं स नृपश्छत्रधरसहितो मार्गभ्रष्टः कामपि महाटवीं प्राप । ततो हारकेयूरकुंडलकंकणमुकुटाद्यलंकारिणं तुरगारूढं मा रिपवो मां कदाचन जानंत्विति विचिंत्य धात्रीधवश्छत्रभृतस्तद्वस्तुजातं दत्त्वा स्वपुरं प्रति विसृज्य स्वयं सम्यगाशावीक्षणं कुर्वाणस्तीर्थाभिमुखमचलत् । अत्रांतरे तस्य राज्ञः पश्यत . एवैकः स्फुरद्वेगो मृगो भयभ्रांतो लतावितानान्तरविशत् । तमनु कोऽपि किरातः सशरं शरासनं करे स्फोरयन्नुपनृपमेत्य दृक्पथाऽतीतहरिण इत्यभणत् - नानाद्रुपत्रसंछत्रे - ऽरण्येऽत्र पदपद्धतिम् ॥ नेक्षे भक्ष्यं स मे दक्ष ! मृगः
International
For Personal & Private Use Only
प्र. ३२
उ. ३४
भूत हंसनृपकथा
प्रश्नो.
सटीका
॥२०२॥
orary.org