________________
भूतहितं
* गाम् ॥३५॥ ते जीर्णरज्जुवत्कर्म-कदंबमविलंबतः ।। त्रोटयित्वा महानंद-पुरे खेलन्ति सुस्थिताः ॥३६।। षड्भिः ।
प्र.३२ * कुलकम् ।। अतस्त्वयापि भूशक्र ! प्रमादपरिहारतः ॥ धर्म कार्यो यथा नाथ-पदवी स्यात्तवापि हि ॥३७॥ *
उ.३४ * श्रेणिकोऽप्येवं श्रुत्वा पुनः प्रांजलिर्मुनि व्यजिज्ञपत्-पूज्यपादैरिदानीं य-न्मदग्रे विनिवेदितम् ।। स्वानुभूतम-*
सत्यम् नाथत्वं । तद्युक्तं हि भवादृशाम् ।।१।। अतो युष्माकमेवेदं । सुलब्धं मानवं जनुः ।। यूयमेव सनाथाश्च । यूयमेव * सबांधवाः ।।२।। सर्वेषामेव जीवानां । प्रभवो यूयमेव हि ।। येनेदृशेन भावेन । चारित्रमुररीकृतम् ।।३।। यदूषणं * मया चक्रे । पृष्ट्वा वो ध्यानविघ्नजम् ।। निमंत्रिताश्च भोगेषु । तत्क्षमस्वाऽखिलं मम ।।४।। एवं मुनिं क्षमयित्वा * नत्वा च श्रेणिकनृपतिरुपात्तधर्मः स्वप्रासादमाससाद । भगवानपि गुणसमृद्धस्त्रिगुप्तिगुप्तस्त्रिदंडविरतो विहग इव * * विप्रमुक्तो गतमोहो महीं विहरन् भव्यान् प्रतिबोधयन् क्रमात्सुगतिमगच्छत् । इति निर्ग्रथमुनेव्याः । श्रुत्वा * * चारुचरित्रम् ।। सर्वसंगविरतिं श्रयत । स्याच्छं येन पवित्रम् ।।१॥
॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ सुखमयसर्वसंगविरतौ निग्रंथसाधुकथा ।। सुखमयसर्वसंगविरतिर्वैषयिकी निग्रंथसाधुकथां निशम्य पुनरपि शुश्रूषुः शिष्यो द्वात्रिंशं प्रश्नमाह
प्रश्नो. प्र.३२-किं सत्यम् ? व्याख्या हे भगवन् ! किं सत्यं सुनृतम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि * सटीका * चतुस्त्रिंशमुत्तरमाह-भूतहितं, व्याख्या हे वत्स ! भूताः सूक्ष्मबादरा एकेंद्रियद्वित्रिचतुरिन्द्रियाः संश्यसंज्ञिपंचेंद्रियाः * ॥२००॥
kkkkkkkkkkkk
For personal & Private Use Only
www.jainelibrary.org