SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्र.३१ उ.३३ धर्मेणैव नाथपदवी * नरक-गत्यादिषु गतोऽसुखम् ।। भुंक्तेऽयमात्मा सुगति-गतः स्यात्सुखभाजनम् ।।२०।। नंदनं ह्ययमात्माय-मात्मा के * त्रिदशगव्यपि ।। अयमात्मैव दुष्टोऽरि-रिष्टश्च स्वजनः पुनः ॥२१।। बध्नात्यशुभकर्माय-मात्मा ह्यनवस्थितः ।। * * अवस्थितोऽयमेवात्मा । शुभं कर्म समाचरेत् ।।२।। अयं त्वात्मा रिपुर्मित्रं । विषं पीयूषमेव च ।। यथायमात्मा * में संसार-मोक्षहेतुस्तथा शृणु ॥२३॥ ये प्रव्रज्य न सेवन्ते । सम्यक्त्वं च महाव्रतीम् ।। ये शीतलविहारेण । । * विहरन्तितरां धराम् ।।२४।। रसेषु गृद्धा ये न स्वं । वशीकुर्वन्ति कर्हिचित् ॥ ते बद्ध्वा निबिडं कर्म । सहन्ते * हंत दुःखताम् ।।२५।। युग्मम् ।। ये नोपयुक्ता ईर्यादौ । पिंडपानैषणासु च । जुगुप्सां प्रवितन्वन्ति । मुक्तिमार्ग में - न यान्ति ते ॥२६।। ये चांगीकृतश्रामण्या-स्तपोनियमवर्जिताः ॥ उत्सूत्रभाषिणस्ते स्युर्जीवा नरकगामिनः । * ॥२७।। ये श्यादिगर्विता ज्योति-मंत्रतंत्रादिभिर्जनम् ।। रंजयन्ति न ते दुःखे । प्राप्ते स्युः शरणं भुवि ।।२८।। * * मत्तेभ-सर्पसंहारि-वारिभूताऽनलादयः ।। तन्न कुर्वन्ति यदुष्टः । स्वात्मा वितनुते हहा ॥२९।। ये बृहद्भानुवत्सर्व-* भक्षिणोऽनेषणीयकम् ।। भुंजते राजपिंडादि । ते स्युः कुगतिभाजनम् ॥३०॥ ये स्नानभूषाममता-निरता विरता * वृषे ।। आत्मनैवात्मनस्ते स्युः । शत्रुवदुःखदायिनः ।।३१।। ये जिनप्रोक्तयुक्त्या तु । रत्नत्रयविभूषिताः ॥ * * परीषहसहाः शश्व-च्छीलांगरथधूर्वहाः ॥३२॥ आवश्यकविधौ शक्ता । विरक्ताः पापकर्मतः ग्रहणाऽऽसेवना-* * शिक्षा-दक्षा निःस्पृहचेतसः ।।३३।। षष्ठाष्टमादितपसा । कृशांगा अप्रमादिनः ।। उपदेशपराः सिद्ध-* * सिद्धांतपठनोन्मुखाः ॥३४।। द्रव्याद्यभिग्रहधरा । मित्रशत्रौ तथा समाः ।। वायुवप्रतिबंधत्व-रहिता विहरन्ति प्रश्नो. सटीका ॥१९९॥ For Personal & Private Use Only www.jainelibrary.org Jain Education Interational
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy