________________
क्षांति–रहो भोगेष्वसंगता || १|| इति ध्यानपरो नरवरस्त्रिः प्रदक्षिणापूर्वं तत्पादानभिवंद्य नातिदूरोपविष्टस्तं यतिप्रष्ठमेवमपृच्छत्-यदार्य ! यौवनेऽप्येवं । दुष्करं व्रतमग्रहीः । तत्कारणं समाख्याहि । सावधानोऽस्म्यहं यतः ।।१।। यतिरप्याहस्म-अनाथोऽस्मि महाराज ! नाथो मम न विद्यते । अतोऽनुकंपकाऽभावा- तारुण्येऽप्यादृतं व्रतम् ||१|| राजापि जगौ - मुने तवैवमृद्धस्य । किं नाथो नास्ति तर्ह्यहम् || नाथो भवामि यन्मित्र - ज्ञात्याद्यैः परिवारितः ।।१।। भोगान् भुंक्ष्व यथा स्वैरं । साम्राज्यं परिपालय ।। यतः पुनरिदं मर्त्य - जन्मातीव हि दुर्लभम् ॥२॥ साधुरप्यभ्यधात्-मगधेशात्मनापि त्व-मनाथोऽसि ततः कथम् ॥ नाथो भवसि मेऽत्रार्थे । महच्चित्रं प्रवर्तते ।।१।। राजाप्येतदनाकर्णितपूर्वमाकर्ण्य संभ्रान्तः साश्चर्यं प्रोचे - शांतं पापं मुनींद्रैवं । वक्तुं न तव युज्यते । यतो मम पुरं स्वर्ग - पुरसर्वस्वजित्वरम् ||१|| गृहाः सुरगृहप्राया । लोका वृंदारकोपमाः ।। दाराः सुराङ्गनाकारा । राज्यं प्राज्यं गजादिभिः ||२|| आज्ञा राज्ञामपि प्रायः । शिरः शेखरखेलिनी । तत्कथं भवताऽत्राऽह-मनाथः परिकीर्तितः ? || ३ || त्रिभिर्विशेषकम् || ऋषिरपीषद्विहस्याहस्म- पार्थिवाऽर्थमनाथानां । सनाथानां च वेत्सि न ।। अतः शृणु ब्रुवेऽनाथः । सनाथो वा यथा भवेत् ||१|| स्वः पुरीप्रतिबिंबायां । कौशांब्यां पुर्यजायत ।। पिता मम महीपाल - पालिपालितशासनः ||२॥ तदा क्रुधारिविहितो-ग्रहेतिप्रहृतेरपि ।। अतीवदारुणा
भू- द्यौवनेऽप्यक्षिवेदना ||३|| ततो मे सर्वगात्रेषु दाहोऽत्यंतमजायत । येन जज्ञे कृशः कृष्ण-पक्षीयशशिबिंबवत् ||४|| ततस्तातगिरा वैद्या । दैवज्ञा मांत्रिकास्तथा । अकार्षुर्हर्षुलस्वातां । उपचारं निजं निजम् ||५|
Jain Education International
For Personal & Private Use Only
प्र. ३१
उ. ३३ निर्ग्रन्थ
मुनिकथा
प्रश्नो.
सटीका
॥१९७॥
www.jainelibrary.org