SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ *** ******* प्र. ३१ - किं सौख्यम् ? व्याख्या - हे भगवन् ! किं सौख्यं परमार्थवृत्त्या सुखम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि त्रयस्त्रिंशमुत्तरमाह - सर्वसंगविरतिर्या, व्याख्या - हे वत्स ! या, किं या ? सर्वसंगविरतिः सर्वः समस्तो यः संगो बाह्याभ्यंतरंगाभ्यां नवचतुर्दशरूपः परिग्रहस्तस्य विरतिः परित्यागः, यतः परिग्रह एव प्राणिनामपायकृत्, उक्तं च- मोहस्यायतनं धृतेरपचयः क्षांतेः प्रतीपो विधि-र्व्याक्षेपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः ।। दुःखस्य प्रसवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः । प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ।।१।। अतः सर्वसंगविरतिरेव सौख्यहेतुः, यतः - भूपर्यंके मृदुभुजलता गण्डुकं खं वितानं । दीपश्चंद्रःसुरतिवनितालब्धमोदः प्रमोदः ।। दिक्कन्याभिः पवनचमरैर्वीज्यमानोऽनुकूलं । भिक्षुः शेते नृप इव ननु त्यक्तसर्वक्षणोऽपि ।।१।। अत्रार्थे निर्ग्रथसाधुकथा, तथाहि इहैव जंबूद्वीपे द्वीपे भारते वर्षे राजगृहं नाम नगरं, यस्मिन् कृशांग्यो बहुभावभंग्यो । यस्मिन् वनाली विलसन्मराली ।। यस्मिंस्तडागा जनदत्तरागा । यस्मिन्निवासाः स्फुटपद्मवासाः ||१|| तत्र श्रेणिको नाम राजा, यो ध्यातवान् श्रीजिनवर्द्धमानं । तथा यथागामितृतीयकार्के । भावी जिनस्तद्वदनर्घ्यऋद्धि रहो हि सेवा महतां फलाय ।।१।। सोऽन्यदा मगधेंद्रो विहारयात्रार्थं नंदनवन इव बहुलताकीर्णे पक्षिलक्षसेविते विविधपुष्पाऽऽच्छादितमंडिकुक्ष्याह्ने चैत्ये ययौ । तत्रैकं सुकुमारांगं तरुलतासीनं समाधिपरं मुनिवरं ददर्श, तस्य चात्यंतनिरुपमरूपनिरूपणाऽऽविर्भवद्विस्मय इति व्यमृशत् - अहो अस्य मुने रूप - महो लावण्यमुत्तमम् || अहो साम्यमहो For Personal & Private Use Only Jain Education International. प्र. ३१ उ. ३३ निर्ग्रन्थ साधु कथा प्रश्नो. सटीका ॥१९६॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy