SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ************* ************** निष्कृपस्तयोस्तपोधनयोः कंधराबाहूदरप्रभृत्यंगेभ्यो नानाविडंबनपूर्वकं रुधिरं निष्काश्य निष्काश्य भांडान्यबीभरत्, तत्रोत्पद्यन्ते कृमयः, ततस्तेषां रक्तै रज्यन्ते कंबल्यः, ते च समयभाषया कृमिरागकंबलाः कथ्यन्ते । अनया रीत्या प्रत्यहं तस्य कोलिकस्य वश्यं गतौ मुनी नरकोपमं दुःखं सहमानौ जातावस्थिचर्मावशेषवपुषौ, अहह दुःखदायि पारवश्यम् ! उक्तं च-ग्रामे वासो नायको निर्विवेकः । कौटिल्यानामेकपात्रं कलत्रम् ।। नित्यं रोगः पारवश्यं च पुंसा - मेतत्सर्वं जीवतामेव मृत्युः ||१|| अत्रांतरे भवितव्यतावशात्तत्राऽऽयातेन भृगुकच्छ्वासिनोपासकेन कथंचिदुपलक्ष्य तस्य कोलिकस्य पार्श्वाद्वित्तवितरणेन तौ मुनी मोचयित्वानीतौ भृगुकच्छं, ततो मिलितौ गच्छस्य, न्यवेदयेतां व्यतिकरं, आददाते चाऽऽलोचनाम् । पुनः कतिचिद्वर्षेषु गतेषु स एव द्रोही वणिक्प्रविष्टो नैषेधिकीपूर्वकमुपाश्रयं, गच्छस्य वंदनां विदधानश्चोपलक्षितस्ताभ्यां मुनिभ्यां, न तु स तावुपलक्षितवान् । ततः प्राग्वत्स तौ न्यमंत्रयद्यानपात्रदर्शनाय, मुनी अपि ज्ञाततत्त्वौ तमित्यूचिवांसौ - दिट्ठ बब्बरकूलं । दिट्ठा अम्हेहिं तुम्हचरिया || अन्नेवंदिसु सावय । जे तुम्ह गुणा न याणंति ||१|| तत् श्रुत्वा स दुष्टः शिरः कंडूयित्वाऽन्यत्रागात् । यती अपि चिरं चारित्रं प्रपाल्य दिवमगमतां । इत्थं यतिद्वंद्वकथां स्वकीय- कर्णातिकं प्राप्य विवेकवन्तः ॥ प्रवर्तितव्यं हि तथा यथा स्यान्न पारवश्यं नरकोपमं वः || १ | ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ नरकोपमपरवशतायां यतिद्वयकथा | नरकोपमपरवशतावैषयिकीं यतिद्वयकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्य एकत्रिंशं प्रश्नमाह Education International **** प्र. ३० उ. ३२ यतियुगल कथा प्रश्नो. सटीका ॥१९५॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy