SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ — प्र. ३० - को नरकः ? व्याख्या हे भगवन् ! को नरको दुर्गतिः ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वात्रिंशमुत्तरमाह - परवशता, व्याख्या - हे वत्स ! परवशता पारतंत्र्यं यथा नरके गता जीवा मिथ्यात्वादिवश्याः सुखलवमपि नाप्नुवन्ति । यतः - अनाद्यनन्तसंसारे । मिथ्यात्वादिवशंवदाः । प्राणिनः कर्म बध्नन्ति । ज्ञानाऽऽवृत्यादिभेदवत् ||१|| नरकादिभवे क्षिप्ता - स्तेन चात्यंतवैरिणा ।। सहन्ते दुःखसंघातं । छेदनाद्यमनेकधा ||२|| तथाहि नारकान् प्रेक्ष्य । घटिकालयवर्तिनः । उत्पत्तिसमये रौद्रैः । परमाधार्मिकामरैः ||३|| आकृष्यंतेऽतिनिस्त्रिंश- मारटन्तः कटुस्वरम् ।। विपाट्यंते ततस्तीक्ष्ण- करपत्रैः कपाटवत् ||४|| शक्त्यादिभिर्विभिद्यन्ते । कल्पांतकल्पिनीशतैः ।। हन्यन्ते मुद्गरैर्वास्या । तक्ष्यन्ते दारुवत्तथा ||५|| पंचभिः कुलकम् ।। भिन्नाश्छिन्ना हता एवं । पुनः संघटितांगकाः । दुर्वारदैवयोगेन । भूयो वीक्ष्य ततोऽसुरैः ||६|| नीयन्ते शाल्मलीदेश—मालिंग्यन्ते च तास्ततः । वज्रकंटकभिन्नांगा । रसन्ति करुणस्वरम् ||७|| युग्मम् ॥ तप्तं त्रपु च पायन्ते संदंशविधृताऽऽननाः ।। दृढं भ्राष्ट्रेषु भृज्यन्ते । भक्ष्यन्ते च निजामिषम् ||८|| तार्यंते च वसापूयरक्तक्लेदांबुकश्मलाम् ।। शयध्वमिति जल्पतो । घोरां वैतरिणीं नदीम् || ९ || युगलम् । असिपत्रवनं याता । कथंचित्ते ततश्च्युताः ।। तत्रापि पतितैः पत्र - श्छिद्यंते शस्त्रसंनिभैः ||१०|| एवं तिसृषु पृथ्वीषु । परतस्तु परस्परम् ।। षष्ठीं यावन्महादुःखं । नारकैरुपजन्यते || ११|| अन्योऽन्यसंमुखाकाराः । पर्यधोभागवर्त्तिनः ॥ पृथिव्यां बत सप्तम्यां । विद्यन्ते वज्रकंटकाः ||१२|| तन्मध्यान्नारका जाताः । निर्गन्तुं न च पारिताः ।। उत्पतन्तः For Personal & Private Use Only प्र. ३० उ. ३२ परवशता महादुःखम् प्रश्नो. सटीका ॥१९३॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy