SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ******** ***** कुकर्मनिहतात्मानः । पापाः सर्वत्र शंकिताः ||१|| राज्ञाप्येवमादिष्टो मंत्रिप्रष्ठो विस्मयालोकनमिलदस्तोकलोककलितो वापीतटमेत्य साकारमनशनं च कृत्वा प्रोच्चैरूचे - सर्वेऽपि लोकाः शृण्वन्तु । यद्यहं द्रोहभाग्विभोः ।। तदा विशन्तमस्यां मां । गिलन्तु मकरादयः ॥ १॥ यद्येवं नो तदा जैन्यो । देव्यो मां सद्य एव हि । एतेभ्यो नक्रचक्रेभ्यो । रक्षंत्वर्हन्मतस्थितम् ॥२॥ इत्युदीर्य स्मृतपञ्चपरमेष्ठिनमस्कारो मंत्रिसारो वाप्यां प्राविशत् । तदा कुंदावदाततच्चरितरंजितशासनसुरीविहितसान्निध्यो मकरपृष्ठारूढो विकचांभोरुहकरोऽमात्यवरो वाप्यां निःसृत्य अहो हिमकरकरानुकरावदातः क्षेमादित्य इत्यखिलजनश्लाघां शृण्वन्नुपनृपमगात्, भूपोऽपि तत्सद्वृत्तप्रीतः कृततत्प्रतिपक्षनिग्रहः क्षेमादित्यं क्षमयित्वा स्तुतिमिति चकार धन्यस्त्वं यस्य तेऽन्यस्मिन् । द्रोहवर्जितचेतसः ।। कुर्वन्ति देवाः सान्निध्यं । तद्वरं वृणु संप्रति ॥ १॥ सचिवोऽपि व्यज्ञपत्-देव ! त्वं यदि तुष्टोऽसि । तर्हि द्राग्मां विसर्जय ।। प्रव्रज्याऽऽदानविषये । किमन्येन वरेण मे ||१|| अहो महामात्योऽयं परमवैराग्यसंपन्न इत्युत्सवपूर्वमूर्वीपतिना प्रव्राजितः सुगुरुपार्श्वात् । क्षेमादित्यः सचिवर्षिरपि राजकार्यभारमिव व्रतभारं निर्वाह्य सुगतिं गतवान् । इत्थं क्षेमादित्यचरित्रं । दुःखलतालवनैकदवित्रम् । श्रुत्वा धीमान् विधुकरतुल्यं । सत्त्वं पालयताद्गतशल्यम् ||१|| ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ शशधरकरानुकारिसज्जनत्वे क्षेमादित्यामात्यकथा ।। शशधरकरानुकारिसज्जनवैषयिकीं क्षेमादित्यामात्यकथां निशम्य पुनरपि शुश्रूषुः शिष्यस्त्रिंशत्तमं प्रश्नमाह For Personal & Private Education International ****> प्र. २९ उ. ३१ क्षेमादित्यस्य दीक्षा प्रश्नो. सटीका ॥१९२॥ ainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy