SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ * कृता रोषारुणा दृष्टिः, व्यापादयाम्यमुं प्रियविप्रियकरमिति छिन्नं तच्छिरस्तेनैव निस्त्रिंशेन । तद्वैशसं वीक्ष्य * प्र.२९ * धात्र्यपि तदत्यंतस्नेहेन धावित्वा मुशलेन तथा तां जघान यथा सा पंचत्वमाप । धात्र्यपि चेट्या हता परासुरासीत्, उ.३१ - साप्यन्येन व्यनासि, अहहाऽऽयुष-श्चापल्यम् ! तत एतद् ज्ञात्वा बहवो धार्मिकाः प्रवव्रजुः । इत्याऽयुषो मंक्षु क्षमादित्या मात्यकथा * समुद्रदत्ता-दीनां निशम्यातिविलोलभावम् ।। भव्याः कुरुध्वं क्षणिकेतरेऽर्ह-द्धर्मे धियं येन शुभं भवेद्वः ।।१।। ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावायुषश्चापल्ये समुद्रदत्तादिकथा । ___ नलिनीदलगतजललवतरलयौवनधनाऽऽयुर्वैषयिकीः कामलतावेश्याधनमित्रश्रेष्ठिसमुद्रदत्तादिकथाः श्रुत्वा * * पुनरपि शुश्रुषुः शिष्य एकोनत्रिंशं प्रश्नमाह प्र.२९-के शशधरकरनिकराऽनुकारिणः ? व्याख्या-हे भगवन् ! शशधरश्चंद्रस्तस्य यः करनिकरः किरणगण* स्तस्यानुकारोऽनुकरणं विद्यते येषां ते के ? इति प्रश्ने कृते शिष्येण गुरुरपि तदनुयायि एकत्रिंशमुत्तरमाह-* * सज्जना एव, व्याख्या-हे वत्स ! संतः शोभना जनाः सज्जनाः सत्पुरुषाः स्वसंकटे सत्यप्यन्यहितैषिणः, * र एवशब्दो निश्चयार्थः, यत ईदृग्गुणानां भाजनं त एव । उक्तं च-सत्यसंतोषसौजन्य-समतासत्त्वसंयमाः ।। सुकृतं । र यस्य सप्तेति । सकाराः सैष सज्जनः ।।१।। अत्रार्थे क्षेमादित्यामात्यकथा, तथाहि प्रश्नो. * इहैव जंबूद्वीपे द्वीपे भारते वर्षे पाटलीपुरं नाम नगरं, यत्र वसन्ति सदा सूर्या-लोकनविलसद्रंगाः । लोकाः * सटीका * कोका इव दोषा-ऽऽकरपरिहृततरसंगाः ॥१॥ तत्र जितशत्रुर्नाम राजा, यो हेमभूमिधरवद्विशाल-सद्भद्रशालः * ॥१९०॥
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy