________________
गतौ तौ गोकुलं, तावाऽऽलोक्य हृष्टा गोपालाः, जातास्तदाऽऽज्ञापराः, भोजितौ तौ दधिदुग्धादिभिः, रात्रौ च गोपाटकांतस्तयोर्यथायोग्यं दत्ता पृथक्पृथक्खट्वा, ततः प्रत्युत्पन्नमतिः शिवः सुप्ते कर्मकरे गोपालवृंदे च स्वतल्पे देहमानं दारुखंडं न्यस्य वाससाऽऽच्छाद्य च स्वयमसिकरः प्रच्छन्नमतिष्ठत् । अत्रांतरे प्रबुद्धो यक्षदत्तः शिवशयनीयमेत्य सुप्तोऽत्यंतं शिव इत्यसिमाकृष्य यावद्धंतुं प्रावर्तत तावच्छिवेन झगित्याऽऽगत्य खङ्गेन जघ्ने स कर्मकृत् । दारुखंडमन्यत्र मुक्त्वा स्वापवादापनोदाय रे रे गोरक्षा उत्थियतामुत्थियतां याति याति चौर इति तेन कलकलश्चक्रे, ततः शिवेन गोपालयुतेन च वाहरार्थं स्तोकां भुवं गत्वा ततः प्रत्यावृत्तेन प्रातर्मृतं कर्मकृतं दृष्ट्वा हा किमिदमाकस्मिकमभूदिति दंभेन मनाग्विलप्य तदंतकृत्यं कृत्वा तेन प्रोक्तं- हंहो गोपालकाः स्थातुं । यक्षदत्तविनाकृतः ।। नात्र शक्नोमि तद्यास्या - म्यधुनैवाऽऽत्मनो गृहम् ||१|| ततः सहाऽऽयातान् गोपान् विसृज्य शिवः स्ववेश्मन्यगात् । ततस्तन्मात्रा ध्यातं - अद्यपि यदयं जीवन् । क्षेमेणाऽत्र समाययैौ ॥ तन्नैव तेन मूढेन । यक्षदत्तेन मारितः ।।१।। इति ध्यात्वा सा सुतमभ्यधात् - हे वत्स ! यक्षदत्तः किं । गोकुले स्थापितस्त्वया । सोऽप्यवोचत्सवित्रि ! पश्चादागच्छन् । कर्मकृत्परिवर्तते ||१|| इत्युक्त्वा तत्रोपविष्टः शिवो व्यमृशत् - अहो हतविधेः कीदृक्परिणामविजृंभितम् । यज्जनन्यपि मत्प्राण- घातायैवं विचेष्टते || १|| इति ध्यायति शिवे धारिण्या दृष्टिः कृपाणे पपात । तं च कीटिकाव्याप्तं व्यालोक्य सा साशंका व्यचिंतयत्-यक्षदत्तो निहत्यैन—मेष्यतीति मनोरथः ।। ममान्यथासीत्स्रष्टु- दुश्चित्यं हि विजृंभितम् ||१|| ततस्तयाऽऽददे कोशादसिः, दृष्टो रक्तलिप्तः,
Jain Education International.
For Personal & Private Use Only
प्र. २८
उ. ३०
शिवस्य
प्रत्युत्पन्ना मतिः
प्रश्नो.
सटीका
॥१८९॥
www.jainelibrary.org