________________
******
यावदहं क्षणम् ।। तावदन्यः पुमानेत्य । समवोचत मत्पुरः || १६ || देव ! यन्मणिमाणक्य - रत्नवासोऽभिशोभितम् ॥ ददाह दहनोऽकस्मादुत्थितस्तेऽट्टपेटकम् ||१७|| इत्येतदपि चाकर्ण्य । कर्णोद्वेगकारणम् ।। यन्मे गृहेऽन्यदप्यासीतदपि त्वत्पुरो ब्रुवे ||१८|| ये हया घोटिका येऽश्व - तरा वाह्लीकदेशजाः ।। महिष्यो धेनवश्वोष्ट्र्यो । ये वृषाः करभाश्च ये ||१९|| यानि चान्नानि रत्नानि । दुकूलान्यंशुकान्यपि ॥ विभूषणानि यद्धेम । ये च मौक्तिकराशयः ॥२०॥ यद्रौप्यं च प्रवालं च । या नानौषधयोऽपि च ॥ कर्पूरादिपदार्था ये ॥ यत्पूगादि क्रयाणकम् ॥२१॥ यच्चान्यदपि तत्सर्वं । शंपासंपातवत्क्षणात् । जगाम निधनं पुण्ये । क्षीणे किं श्रीः स्थिरा भवेत् ? ||२२|| चतुर्भिः कलापकम् । उक्तं च- एगत्थ वसइ सुइरं । अखंडपुन्नगुणनियलिया लच्छी तुट्टंमि तंमि पुण । मकडिव्व कत्थवि थिरा न हवे ||२३|| तदेवं क्षणिकं वित्तं । ज्ञात्वादायि मया व्रतम् ॥ यतः साहसिनां पुंसां । स्यादवश्यं गतिद्वयम् ॥ २४ ॥ यदुक्तं - दुच्चिय हुंति गईओ । साहसवंताण धीरपुरिसाण || विल्लहलकमलहत्था । रायसिरी अहव पव्वज्जा ||२५|| अत एतत्स्वरूपं मे । परिभाव्य स्वचेतसि । कार्यं भवेद्भवद्भिर्हि । व्रताऽऽदानोन्मुखं मनः ||२६|| राजाऽपि तत् श्रुत्वा पुनर्गुरुं व्यज्ञपत् - साधु साधुवरेण्याहं । लोललक्ष्मीमदोन्मनाः ।। बोधितस्तप्रतीक्षस्व । क्षणमेकं ममाऽऽग्रहात् ||२७|| यावत्तनूजसात्कृत्वा । साम्राज्यश्रियमात्मनः ।। समायामि जिनेंद्रोक्तदीक्षाग्रहणकर्मणे ।।२८।। ततो गुरुणाऽपि धन्यस्त्वमित्याद्युपबृंहितो महीशः प्रासादमासाद्य राजसिंहकुमाराय राज्यं दत्वा स्वयं कियज्जनयुतो धनमित्रसद्गुरुपादांते प्रवव्राज । धनमित्रमुनिवरोऽपि राजर्षियुतोऽनेकान् लोकान्
I
Jain Education International
For Personal & Private Use Only
प्र. २८
उ. २९
धनमित्र
मुनिवरस्य शिवपदप्राप्तिः
प्रश्नो.
सटीका
॥१८६॥
www.jainelibrary.org