________________
पृच्छा
* यतः-छूतेन मद्येन पणांगनाभि-स्तोयेन भूपेन हुताशनेन ।। मलिम्लुचेनांशहरेण नाशं । नीयेत वित्तं क्व धने * प्र.२८ * स्थिरत्वम् ।।१।। अत्रार्थे धनमित्रश्रेष्ठिकथा, तथाहि
वैराग्यकारण + इहैव जंबूद्वीपे द्वीपे भारते वर्षे शौर्यपुरं नाम नगरं, यस्मिन् यादवकुलदुग्धां-बुधिशशधरकल्पस्य नेमेरजनि
जनिर्नि-तरां तुष्टिकरी सर्वस्य ।।१।। तत्र नरवर्मा नाम राजा, न्यायसद्भरतशिक्षिताधिकं । रंजयत्यखिलदेहिनां । * मनः । विश्वमंडपतले यदीयका-द्यापि नृत्यति सुकीर्तिनर्तकी ।।१।। तस्य सुरस्येवांतःपुरीसुरीभिः सह भोगाननुभवतो * जगाम कियान् कालः, एकदा सभानिविष्टो भूपोऽमात्यानित्याहस्म-भो भो लोका अधकल्ये । कोऽप्येति न *
यतीश्वरः ।। यत्पदांभोजरजसा । भालं तिलकयामहे ॥१॥ तच्चेत्कश्चित्कदाप्येति । साधुधुर्यस्तदा मम ।। पुरो र * वाच्यं यथा यामि । तद्वंदनविधित्सया ।२।। इति नृपो यावदुक्तवान् तावद्वनपालोऽभ्येत्य नत्यनंतरं धनमित्र* मुनिपुंगवाऽऽगमनवार्तया नृपमवर्धयत् । परां कोटिमाटीकते हि महतां मनोरथः, यतः-यत्किमपि पुण्यवन्तो । * * निजचेतसि चिंतयन्ति तत्सर्वम् ।। संपद्यते यथा मधु-मासे तरुजातिरतिरम्या ॥१॥ ततो भूपालो वनपालाय * प्रीतिदानं दत्वा राजलोकयुक् साधुनिनसायै प्राचलत् । अवापदुद्यानं, ननाम नयनाऽऽनंदप्रदं मुनींदु, र * उपाविशच्चोचितस्थानं, यतिरति धर्माऽऽशिषा तमभिनन्द्य यावदुपदेशदानाय प्रावर्तत तावद्राज्ञा मुनिपुरस्तादिति * नो. * विज्ञप्तं-भगवन् ! भवद्भिरीदृशि । रूपे वयसि च चारित्रमात्तं यत् ।। तत्किं निमित्तमिति मे । पुरतो निगदत सटीका
दयां कृत्वा ।।१।। साधुरप्यभ्यधात्-राजन्निह भवे नाना-निमित्तानि तथापि मे ।। धनमेव हि वैराग्य-कारणं ॥१८४॥
JBS Education International
,
For Personal & Private Use Only
www.jainelibrary.org