SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ * नुरागाकुलमानसः ।। तस्याः कीदृश्यवस्थासी-द्धिग्धिग्यौवनचापलम् ॥१॥ यस्याः पुराभवन् केशा-स्तमाल-* प्र.२८ * श्यामलत्विषः ।। तेऽधुना पांडुरा आसन् । ही धिग्धिग्यौवनं चलम् ।।२।। यस्याः कटाक्षविक्षेपाः । पुरासंस्तेऽधुना है उ.२९ न पुनः ।। दृग्भ्यां सह क्षयं प्रापु-हि धिग्धिग्यौवनं चलम् ।।३।। प्राग्येऽभवन् रदा अस्या-स्ते जराराक्षसीभयात् ।। धनमपि चपलम् * मन्ये नष्टा इवेदानीं । ही धिग्धिग्यौवनं चलम् ॥४॥ पुरासीदास्यमस्या य-त्स्मेरं तदधुनाऽजनि ॥ सायं के * पद्ममिवाश्रीकं । ही धिग्धिग्यौवनं चलम् ।।५।। इत्यादि भावयंस्तैरेव पदैः स्वमंदिरमुपेतः श्रेष्ठी * * पुनरध्यासीत्-पुरीषशूकरः पूर्वं । ततो मदनगर्दभः ।। जराजरद्गवः पश्चात् । कदापि न पुमान् पुमान् ।।१।। इति के यौवनस्यानित्यतां विचिंत्य श्रेष्ठी सप्तक्षेत्र्यां धनाद्युप्त्वा शीलंधराचार्यपादान्ते प्रव्रज्य तपस्तप्त्वा च सौधर्मे में * सुरोऽजनि, अहो ! निरतिचारचारित्रफलम् ! यदागमः-अविराहियसामन्नस्स । साहुणो सावयस्सय जहन्नो । * सोहम्मे उववाओ । भणिओ तेलुक्कदंसीहिं ।।१।। ततः स सेत्स्यति, इति कामलतापणस्त्रिया । हृदये यौवनलोलतां वे जनाः ।। परिभाव्य हितार्थसाधनं । कुरुताश्वेव हि भोगदेववत् ।।१॥ ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ यौवनचापल्ये कामलतावेश्याकथा । पुनस्तस्मिन्नेव शिष्यकृतेऽष्टाविंशे प्रश्ने गुरुस्तदनुयायि द्वितीयमेकोनत्रिंशमुत्तरमाह उ. २९ - धनं, व्याख्या-* * हे वत्स ! न केवलं नलिनीदलगतजललवतरलं यौवनं, किंतु धनमपि द्रव्यमपि, यदर्थं प्राणी बहुधा क्लिश्यति, * सटीका * प्राणानपि संशये पातयति, पितृपितृव्यभ्रातृमित्रकलत्रप्रमुखैश्च सह कलहायते, तदपि परमार्थवृत्त्या क्षणिकं, * ॥१८३॥ प्रश्नो. For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy