________________
米米米米米米米米米米米米米米米米米米米米米米米米米
महाराज ! क एष जगतीतले ।। भवतामपि यः सेव्य - पदपंकजयामलः ||१|| श्रेणिकोऽप्यभाणीत् - भो पुष्पशालां - गज ! सैष देवः । सुरेंद्रदैत्यनरेंद्रवंद्यः । सिद्धार्थपृथ्वीपतिवंशपद्म - गभस्तिमाली त्रिशलातनूजः ।।१।। संसारवारांनिधिमध्यमज्ज-ज्जगज्जनोद्धारसुकर्णधारः ।। अनाथनाथः शिवमार्गदर्शी । श्रीवर्धमानश्चरमो जिनेंद्रः ॥२॥ युग्मम् ।। इत्याकर्ण्य भाद्रेयोऽपि दध्यौ - यदेष एव त्रैलोक्य - लोकाऽऽराध्यक्रमांबुजः । तदेनमेव संसेवे । परेषां किमु सेवया ? ॥१॥ इति विशिष्यजागरुकविवेकः पुष्पशालसुतो मगधाधिपमभ्यर्थ्य नमिविनमिवत्प्रथमजिनं चरमजिनं कृपाणपाणिरसेवत । भगवानपि तादृक्तत्सेवास्वरूपं विनिरूप्य आहस्म - भाविकल्याण ! नाऽस्माक - मेवं सेवा विधीयते ॥ किंतु नः क्रियते दीक्षा-कक्षीकारान्निषेवणम् ||१|| ततः स सर्वांगरंगद्विवेको श्रीवीरमानम्य सम्यक् कृताञ्जलिर्व्यजिज्ञपत्-परमेश्वर ! यद्येवं । तर्हि दीक्षां प्रयच्छ मे । यथा भवन्तमत्यंत - भक्त्या सेवे निरंतरम् ||१|| ततः स भगवता स्वहस्तेन दीक्षितः, शिक्षितश्चोभयशिक्षां, पुष्पशालसुतर्षिरपि भगवत्सेवापरः परिपालितनिरतिचारचारित्रः क्रमात्सुगतिमगच्छत् । इति पुष्पशालतनयस्य । चरितमनघं महात्मनः ।। कर्णसारणिमुपनीय जनाः । सुविवेकजागरपराः स्थ सर्वदा ॥१॥
॥ इत्याचार्य श्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ जागरुकविवेके पुष्पशालसुतकथा ॥ जागरुकविवेकवैषयिकीं पुष्पशालसुतकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तविंशं प्रश्नमाह
प्र. २७ – का निद्रा ? व्याख्या - हे भगवन् ! का निद्रा प्रमीला ? इति प्रश्ने शिष्येण कृते गुरुरपि
For Use Only
Jain Education International
प्र. २६
पुष्पशालबालस्य दीक्षा सुगतिश्च
प्रश्नो.
सटीका
॥१७८॥
www.jainelibrary.org