SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 米米米米米米米米米米米米米米米米米米米米米米米米米 महाराज ! क एष जगतीतले ।। भवतामपि यः सेव्य - पदपंकजयामलः ||१|| श्रेणिकोऽप्यभाणीत् - भो पुष्पशालां - गज ! सैष देवः । सुरेंद्रदैत्यनरेंद्रवंद्यः । सिद्धार्थपृथ्वीपतिवंशपद्म - गभस्तिमाली त्रिशलातनूजः ।।१।। संसारवारांनिधिमध्यमज्ज-ज्जगज्जनोद्धारसुकर्णधारः ।। अनाथनाथः शिवमार्गदर्शी । श्रीवर्धमानश्चरमो जिनेंद्रः ॥२॥ युग्मम् ।। इत्याकर्ण्य भाद्रेयोऽपि दध्यौ - यदेष एव त्रैलोक्य - लोकाऽऽराध्यक्रमांबुजः । तदेनमेव संसेवे । परेषां किमु सेवया ? ॥१॥ इति विशिष्यजागरुकविवेकः पुष्पशालसुतो मगधाधिपमभ्यर्थ्य नमिविनमिवत्प्रथमजिनं चरमजिनं कृपाणपाणिरसेवत । भगवानपि तादृक्तत्सेवास्वरूपं विनिरूप्य आहस्म - भाविकल्याण ! नाऽस्माक - मेवं सेवा विधीयते ॥ किंतु नः क्रियते दीक्षा-कक्षीकारान्निषेवणम् ||१|| ततः स सर्वांगरंगद्विवेको श्रीवीरमानम्य सम्यक् कृताञ्जलिर्व्यजिज्ञपत्-परमेश्वर ! यद्येवं । तर्हि दीक्षां प्रयच्छ मे । यथा भवन्तमत्यंत - भक्त्या सेवे निरंतरम् ||१|| ततः स भगवता स्वहस्तेन दीक्षितः, शिक्षितश्चोभयशिक्षां, पुष्पशालसुतर्षिरपि भगवत्सेवापरः परिपालितनिरतिचारचारित्रः क्रमात्सुगतिमगच्छत् । इति पुष्पशालतनयस्य । चरितमनघं महात्मनः ।। कर्णसारणिमुपनीय जनाः । सुविवेकजागरपराः स्थ सर्वदा ॥१॥ ॥ इत्याचार्य श्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ जागरुकविवेके पुष्पशालसुतकथा ॥ जागरुकविवेकवैषयिकीं पुष्पशालसुतकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तविंशं प्रश्नमाह प्र. २७ – का निद्रा ? व्याख्या - हे भगवन् ! का निद्रा प्रमीला ? इति प्रश्ने शिष्येण कृते गुरुरपि For Use Only Jain Education International प्र. २६ पुष्पशालबालस्य दीक्षा सुगतिश्च प्रश्नो. सटीका ॥१७८॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy