SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ K******** समभूद्यतः । अपह्नुतेऽध्यक्षमपि । न सत्यमपि जल्पति ||१|| एकदा स विषघारित इव गुरुतरप्रहारमूर्च्छित इव महतापि हि शब्देन शब्दमयच्छन् दिनेऽपि स्वप्नान् पश्यन्नसंबद्धं जल्पन्निर्भरं शयानो गुरुभिः कथमपि बहुधा शब्दैः प्रबोध्यैवमभ्यधायि - हे पुण्डरीकसाधो त्वमेवं वदसि नः पुरः ।। यन्नाहं स्वपिमि व्यक्तं । तत्किमेतद्विभाव्यते ||१|| पुण्डरीकोऽपि जगौ-पूज्याः किमेतद्यत्सुप्तोऽस्त्यसाविति वृथा भ्रमः ॥ यतोऽधुनापि गुणय- न्नभुवं श्रुतमुच्चकैः ||१|| केवलं निश्चलीभूय । सूत्रार्थं परिभावये ।। यदा तदा प्रसुप्तोऽय - मिति जायते वो भ्रमः ॥२॥ इत्यादिमृषाभाषिणं पुण्डरीकं ज्ञात्वा विरक्ता गुरवः, ततः साधुभिरप्युपेक्षितः स द्वेषमुपागच्छत्, तदनु दूरीभूतोऽस्मात्सदागमः, प्रणष्टः सद्बोधः, दूरादपि दूरमाश्रितश्चारित्रधर्मः, गता सर्वविरतिः, किं बहुना ? अनश्यत्सम्यग्दर्शनमपि । ततो मिथ्यात्वाद्यैरेकत्रीभूय प्रांते पुण्डरीको निद्राघुरघुरके क्षिप्तो नीतः पुनरपि निगोदे । अहह पाटवेऽप्यनभ्यासः पाश इवानर्थकृत्, तदनुस बहुतरं भवं परिभ्रम्य सेत्स्यति ॥ इति जना विनिशम्य सुनंदभू-चरितमागमपाठविधौ भृशम् || परिमुञ्चत पाटवे । सति भवन्ति यथा कुशलानि वः ॥१॥ ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ पाटवाऽनभ्यासे पुण्डरीकसाधुकथा || पाटवाऽनभ्यासवैषयिकीं पुण्डरीकसाधुकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः षड्विंशं प्रश्नमाह प्र. २६ - को जागरः ? व्याख्या - हे भगवन् ! को जागरो जागरुक ? इति प्रश्ने शिष्येण कृते गुरुरपि For Personal & Private Use Only Jain Education International प्र. २५ अनभ्यासः अनर्थकृत् प्र. २६ प्रश्नो. सटीका ॥१७५॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy