SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ * विप्रभूरारोग्यद्विज इति नाम प्राप्र, क्रमात्पालितव्रतोऽनिन्दितजीवितोऽभवत्सुखभाक् । इत्थं मनुष्या निजकर्णपाली-* प्र.२५ * मारोग्यविप्रस्य कथां प्रणीय ।। प्रवर्तितव्यं भुवि तद्वदेव । भवद्भिरप्याशु यथाऽऽप्यते शम् ।।१।। जाड्ये ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तावनवद्यजीविते आरोग्यद्विजकथा ।। पुण्डरीक कथा ___ अनवद्यजीवितवैषयिकीमारोग्यद्विजकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः पंचविंशं प्रश्नमाह प्र. २५ - किं जाड्यम् ? व्याख्या हे भगवन् ! किं जाड्यं मूर्खत्वम् ? इति प्रश्ने शिष्येण कृते गुरुरपि मैं * तदनुयायि पंचविंशमुत्तरमाह-पाटवेऽप्यनभ्यासः, व्याख्या-हे वत्स ! पाटवेऽपि प्रज्ञोल्लेखेऽपि अनभ्यासो है निद्रादिना द्विसंध्याऽऽवश्यककरणनमस्कारस्मरणदेववंदनविनिर्माणप्रत्याख्यानविधानधर्मशास्त्रादिपठनपाठनादिषु * * अनुद्यमः, उद्यमे हि अमीषामवगमो, नानभ्यासेन, यदुक्तं-नानुद्योगवता न च प्रस्वपता मानं न चोत्कर्षता । * नालस्योपहतेन नान्यमनसा नाऽऽचार्यविद्वेषिणा ॥ न भ्रूसंगकटाक्षविस्मितमुखीं सीमंतिनी ध्यायता । लोके * * ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते ।।१।। अत्रार्थे पुण्डरीककथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे ब्रह्मपुरं नाम नगरं, भो भव्या मनुजाः प्रमादमदिरां दूरे परित्यज्यतां । * * सप्तक्षेत्रनियोजनेन सफलीकार्या भवद्भिस्त्वहम् ।। नो चेत्स्यां न हि निश्चलेति कमला यत्रात्मनश्चापलं । प्रश्नो. वातोद्भूतगृहध्वजापटमिषादाविष्करोत्यन्वहम् ।।१।। तत्र सुनंदो नाम श्रेष्ठी, यः पौरवर्गेषु सदा गरिष्ठः । * सटीका * सिद्धांततत्त्वावगमे पटिष्ठः ।। सर्वांगिसाधारणसागरिष्ठः । सद्धर्ममार्गाचरणैकनिष्ठः ।।१।। तस्य धन्या नाम * ॥१७१॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy