SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ **** एवास्तमेति च ।। संपत्तौ च विपत्तौ च । महतामेकरूपता ||१|| एकदा शक्रः सदस्येवमवादित्-जीवितव्यमहो श्लाघ्यं । देवगुप्ततनूभुवः ।। सावद्यां यश्चिकित्सां हि । मनसापि न कांक्षति ||१|| तत ईदृगिंद्रगिरमश्रद्दधानौ कावपि सुरौ वैद्यरूपीभूय देवगुप्तसुताभ्यासमेत्येत्यवोचतां - धीमन् ! प्रगुणयावस्त्वां । कुरुषे भेषजं यदि ।। देवगुप्तप्रसूरप्यभणत्-हे वैद्यौ वदतं तावत् । कीदृशं हि तदौषधम् ? || 9 || देवावप्यूचतुः - भद्रादिमे निशो यामे कार्यं मध्ववलेहनम् ।। तथा च चरमे जीर्ण - मदिरापानपूर्वकम् ||१|| भोक्तव्यं कूरमाकंठं । नवनीतपलान्वितम् ।। यथा तवांगे रोगाणां । क्षयो भवति वेगतः ॥२॥ युग्मम् | देवगुप्तसुतोऽप्याहस्म-वैद्यावात्तव्रतव्रातोऽमीषामाचरणं कथम् ।। करोमि यस्मादेतेषु । जीवोत्पत्तिक्षयौ स्मृतौ ||१|| यदाह - मद्ये मांसे मधुनि च । नवनीते तक्रतो बहिर्नीते ।। तद्वर्णाः सूक्ष्मजीवा । उत्पद्यंते विपद्यते च ॥ १ ॥ पुनः सुरावूचाते - मूढ ! जानीव आवाम - प्येवं किंतु यथा तथा ॥ स्वांगं रक्ष्यं भवेत्पश्चा-प्रायश्चित्तं समाचरेः ||१|| यदागमः - सव्वत्थं संजमं संजमाओ अप्पाणमेव रक्खिज्जा || मुच्चइ अइवायाओ । पुणो विसोही न याविरई || १ || विप्रभूरप्यभाणीत् - वैद्यौ विधेया शोधिश्चे-त्पश्चादप्यधुना तु सा ।। तत्किं न कार्या यन्मन्ये । भद्रादस्पर्शनं वरम् ||१|| एवं पितृस्वजनभूजानिप्रभृतिभिरुक्तोऽपि स यावन्न मन्यतेस्म, तावत्तौ सुरीभूय मुदिताविति जगदतुः - नंदानंदन ! धन्यस्त्व–मनिंद्यं तव जीवितम् ।। यस्य ते कुरुते श्लाघा - ममराधीश्वरोऽपि हि ||१|| इति प्रशंसामासूत्र्य तं द्विजांगजं नीरुजं विधाय तौ विबुधौ विबुधावासमासादतुः, हृष्टाः पित्रादयः, प्रबुद्धाश्च तादृग्धर्ममाहात्म्यदर्शनाद्बहवो भव्याः, तदादि स Jain Education International For Personal & Private Use Only 米米米米 प्र. २४ धर्ममाहात्म्य दर्शनाप्रबुद्धा भव्याः प्रश्नो. सटीका ॥१७०॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy