________________
********
K***
वृथाऽद्रेरितः पतनमथ चेत् ।। पतसि तथापि तवाऽऽलं । दुःखं यदीरितं मुनिभिः || १ || विषभक्षणेन सलिला - नलविशनेनाऽद्रिशृंगपतनेन ॥ क्षुत्तृड्व्यथया रज्जु - ग्रहणेनाऽकांडभीत्या च ॥ २ ॥ जीवा मृत्युं प्राप्ता । व्यंतरपदवीं प्रयान्ति तुच्छसुखाम् ।। तत्रापि हि यदि मनसोऽध्यवसायो बोभवीति शुभः ||३|| युग्मम् || तद्विरम विरम वेगा–दस्मादपमृत्युतो जिनोद्दिष्टम् || व्रतमंगीकुरु चेत्त्वं । वांछसि दुःखावली - विलयम् ||४|| इति सदुपदेशं निशम्य दुर्गतो गिरिशृंगादुत्तीर्य मुनिवर्यमानम्य च व्यजिज्ञपत् - श्रमणवृषभ ! साधु बोधितोऽहं । वितर विधाय दयां ममाऽऽशु दीक्षाम् ।। न हि भवति यथा कदापि दुःखं । भवति च शर्म कुकर्म-मर्मभेदि ||१|| यतिरप्युपबृंहणापूर्वं तं दीक्षयित्वा द्विविधां शिक्षां शिक्षयित्वाऽन्यत्र विजहार । दुर्गतर्षिरपि तादृक्कुकर्मक्षपणाय तत्रैव विचित्रं तपः कुर्वाणः क्रमेणाऽक्षयपदमासदत् । इति दुर्गतस्य सुधियश्चरितं । विनिधाय कर्णकुहरांतरे सदा ।। परियाचनं त्यजत येन भवेन्न । भवे कदाचिदपि वोऽत्र लाघवम् ||१||
।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ लाघवहेतुयाञ्चायां दुर्गतकथा || लाघवहेतुयाञ्चावैषयिकीं दुर्गतकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्विंशं प्रश्नमाह
प्र. २४- किं जीवितम् ? व्याख्या - हे भगवन् ! किं जीवितं प्राणितव्यम् ? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि चतुर्विंशमुत्तरमाह - अनवद्यं, व्याख्या - हे वत्स ! नास्त्यवद्यं दूषणं यत्र तदनवद्यं, आस्तां तावज्जीवन् पुमान्, किंतु परभवगतोऽपि निरवद्यजीवितो जीवन्नेव, अवद्यजीवितस्तु जीवन्नपि मृत एव, यदुक्तं
प्र. २४
जीवितं
अनवद्यम्
प्रश्नो.
सटीका
1198211