________________
*******
तदभाग्योदयादखिलाऽपि कमला पलायिता, यतः - अशाश्वतान्यनित्यानि । सर्वाणि दिवि चेह च ।। सुराऽसुरमनुष्याणा-मृद्धयश्च सुखानि च ॥ १॥ ततः कियत्सु दिनेषु गतेषु पिताप्यंतकांतिकमगात्, यदुक्तं-कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः । स्त्रीभिः कस्य न खंडितं भुवि मनः को नाम राज्ञां प्रियः ॥ कः कालस्य न गोचरांतरगतः कोऽर्थी गतो गौरवम् । को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥१॥ तन्माताऽपि तादृग्वित्तपतिविपत्तिदुःखिता जातमात्र एव तस्मिन् परभवमवाप । अहो ! अचिंत्यं हतविधिविलसितम् ! उक्तं च- विहिणो वसेण कज्जं । जयंमि तं किं दारुणं पडइ ।। जं न कहिओ न सहिओ । न चेव पच्छाइओ तरइ ।।१।। ततो विपन्नपितृकं धूलिधूसरशरीरं दुःखलतालवालं तं बालं वीक्ष्य जनो दुर्गत इति तदभिधां व्यधात् । ततो विधिवशादपालितोऽपि स परालये कोकिल इव वृद्धिमाप्नुवन् कथमपि भिक्षावृत्याजीविकां कुर्वन् कष्टेन समयं गमयन्नन्यदाऽ चिंतयत्- अहह कुलक्षयकालो । जननीगर्भे तुषार इव तापे ।। किमिति न जगाल यद्वा । किं न मृतो जातमात्रोऽपि ||१|| अथवा किं मम जीवित- फलं यदन्यालयेषु दीनमुखः । वितर वितरेति याञ्चां । लाघवजननीमहं कुर्वे ||२|| तद्वरमेव हि मरणं । न पुनरेषाऽखिलगुणगणलतासु || दंभोलिदंडधारातुल्या याञ्चा भृशं विहिता ||३|| जइ धणु णुदउ विहिवसिण पियववसाइ विलग्गि । अंचलु उडिमसजनहरि वरि मरि तोइ ममज्जि ।। इति ध्यात्वा स ततः स्थानात्पुराद्वहिरेत्याऽऽ सन्नस्थं गगनाग्रजाग्रशृंगं कमपि गिरिं हरिवदारुह्य यावत्पिपतिषुरभवत्तावत्तद्भाविशुभकर्मप्रेरितो दमसाराभिधः साधुरेत्य तत्पुरः प्रोचे - भो भद्र ! मा मा मा । कृथा
For Personal & Private Use Only
Jain Education International
प्र. २३
दुर्गतकथा
प्रश्नो.
सटीका
॥१६७॥
www.jainelibrary.org