SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ******** MAKA क्व धनदेवः ।। ते अप्येवं जगदतुरार्यो देशांतरं गतवान् ||६४|| श्रीपुंजेन प्रहितं । रत्नाभरणं निजाय जामात्रे । इति जल्पन् स ततोऽदात्तयोरकथयच्च तद्वचनम् || ६५|| ते अप्यूचतुरुचितं । श्रीपुंजश्रेष्ठिना विहितमेतत् । यस्मादस्मात्कांतो - ऽपि हि तन्मिलनोन्मना अस्ति || ६६ || किंत्वित उरुकार्यवशाद् । व्रजता तेनेति भाषितं श्रेष्ठिन् ।। यः कश्चनापि हि जनो - Sत्राऽऽगच्छति रत्नपुरपुरतः ॥६७॥ तस्यावश्यं हस्ते । श्रीपुंजसुतामनोविनोदाय ॥ शुकरत्नमिदं प्रेष्यं । तद् गृह्णीत कुरुत तद्वाक्यम् ||६८ || सोऽपि तदाऽऽदाय ततः । कृतकृत्यः प्रवहणं समारुह्य ।। जलधिं चोल्लंघ्यागा- द्रत्नपुरं स्वात्मनोऽभिमतम् || ६९|| तदुदंतकथनपूर्वं । श्रीपुंजाय व्यतारि तेन शुकः । सोऽपि तमादाय मुदा । श्रीमत्या अर्पयामास || ७० || साप्यानंदितचित्ता । तं कीरं निजकरे विधाय सदा । चिक्रीड न खलु कस्या । वस्तु मुदे स्याप्रियप्रहितम् ॥ ७१ ॥ दवरकमतिमलिनमिति । ध्यात्वा सा कीरचरणतो यावत् ।। छोटयतिस्म तावद्धनदेवः सहजरूपोऽभूत् ॥७२॥ तदनु श्रीमत्या सोऽति-विस्मितस्वांतया भाणि ॥ नाथ ! किमेतत्तेना - प्यूचे यत्पश्यसि त्वमिति ॥ ७३ ॥ ज्ञात्वा स्वरूपमेत- च्छ्रीपुंजश्रेष्ठिना स धनदेवः ।। धनकनकवसनदानैः । संमान्य स्थापितोऽन्यगृहे ॥७४॥ तत्र श्रीमत्या सम-मनारतं रतिसुखान्यनुभवन् यः ।। समयं गमयांचक्रे । सौधर्माधिप इवेंद्राण्या ॥ ७५ ॥ भवितव्यतानियोगात् । श्रीपुंजः पंचतामगाद्यस्मात् ॥ संसारे सर्वमपि । क्षणिकं वस्त्विंद्रजालमिव ॥ ७६ ॥ श्रीमत्यपि हि कदाचि - प्रजापतीनां वचांस्यवाच्यानि ॥ श्रुत्वा गद्गदस्वर-मिति पतिपुरतो जगादतराम् ॥७७॥ नाथ ! गुणरत्नरत्नाकरसदृश ! चतुर्विधा भृशं पुरुषाः || For Personal & Private Use Only Jain Education International प्र. २१ सहजरूपो धनदेवः प्रश्नो. सटीका ॥१५९॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy