________________
तादृशागण्यलावण्यकिंकरीकृतस्मरं मुनिवरं वारंवारं पश्यन् सञ्जातविस्मयः क्ष्मापतनयः प्रांजलिर्व्यजिज्ञपत्भगवन्नभिनववयसि । श्रीमद्भिर्यद् व्रतं समादायि ।। तत्किं भवतां वैराग्यकारणं कथयत मदग्रे ||१|| मुनिरप्यूचेनरवरतनयाऽत्र भवे । यद्यपि वैराग्यहेतवो बहवः ।। तदपि मम स्त्रिय एव हि । वैराग्यनिबंधनं शृणु तत् ।।१।। श्रीगर्वाद्र्द्वैर्वाणीं । पुरीं हसंत्यां हसन्तिकापुर्याम् । श्रेष्ठी धनपतिरासी - द्दासीकृतधनदधनगरिमा ॥२॥ तस्य हरेरिव पत्नी । लक्ष्मीरभवत्तयोरुभौ तनयौ ।। तयोरपि द्वे वध्वौ । चैतत्कुटुंबकं सकलम् ||३|| तत्सकलं च कुटुंबं । लीनं नित्यं निजस्वभावेन (आद्यो धनसारोऽभूत् द्वैतीयकस्तु धनदेवः । तौ पुत्रौ हि पितृभ्यां कलागुरोः पाठयाम्बभुवाते उद्वाहितौ तथोत्सवपूर्वं सममिभ्यकन्याभ्याम् । जनको जननी तनयौ वध्वावेवं कुटुंबकं सकलं । पाठा.) निजनिजकर्तव्यविधौ । नितरां समयं गमयतिस्म ||४|| अन्येद्युरतिज्वराद्यै- रुग्रै रोगैर्गृहीततनुयष्टि: ।। श्रेष्ठी क्षामितसत्त्वो । नमस्कृति संस्मरन् स्वरगात् ||५|| श्रेष्ठिन्यपि तन्मृत्या । संसारमसारमेव मन्वाना । विहिताऽनशना भावित - भावा परभवमलंचक्रे || ६ || तदनु विहितांतकृत्यैौ । शोकार्त्ती श्रेष्ठिधनपतितनुज || श्रीमुनिचंद्रमुनींद्रः । समेत्य तौ बोधयितुमित्यलपत् ||७|| हंहो भविकौ ! पितृ-मातृबंधुभार्यासुहृत्सुतधनादि ।। दर्भाग्रजाग्रदंभः - कणवत्क्षणिकं भवे सकलम् ||८|| तत्रापि ते नितान्तं । जीवाः शोच्या भवन्ति ये धर्मम् ।। श्रीजिनवरेंद्रवदनो - द्भूतमकृत्वा विपद्यते ॥ ९ ॥ यदाह स्थानांगेः - भयवं के जीवा सोयणीया हवंति ? गोयमा ! अपावियजिणदिक्खाओ, असुयसिद्धंतवयणाओ, अबोहियलोयाओ, अकयधम्माओ, अगहियअणुव्वयाओ,
For Personal & Private Use Only
**本
प्र. २१
के जीवा सोयणीया ?
के जीवा असोयणीया
प्रश्नो.
सटीका
॥१५३॥
www.jainelibrary.org