SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ************************ भयविस्मयाऽऽविष्टो धनदोऽपि लग्नस्तत्पृष्ठे, प्राप्तावुभावपि पुरं विवेश विद्युल्लतागृहं छागः, किमेष मेषः करोतीति धनदः प्रच्छन्नं पश्यन् बहिरेवास्थात्, विद्युल्लताऽप्यद्राक्षीदजं, ततः कपाटसंपुटं दत्वा 'यास्यसि रे' इति वारंवारं वदन्ती प्राग्वलितवस्त्रलगुडेन तं कुट्टयितुं लग्ना, पशुरपि बूबूत्करोति स्म । अमिलदस्तोको लोकः, तेनापि कृपावशाद्वारिता विद्युल्लता, तयापि जनदाक्षिण्यान्मंत्राभिमंत्रितवारिसिक्तोऽभूत् पुनस्तपस्वी, लोकेनापि विस्मितेन किमेतदिति पृष्टः सोऽपि स्वं स्वरूपं प्राचीकथत्, ततो जन इत्यूचे - सयलंमि लोयमज्झंमि जुन्नु अक्खाणउय कुपंडिइवुत्तु, जो खाइ करंबओ करेवि सो सुसो सहइ विडंबउ नत्थि दोसु ।। तद्वीक्ष्य धनदो निर्वेदादिति दध्यौ-अहो निजचरित्रेण । जितचंडाप्रचंडिका ॥ एषाऽनार्याशया नार्यो । वर्ज्यास्तत्स्वहितैषिणा ।।१।। आसां चरित्रं संताप - करं दृष्टमपि स्फुटम् ।। तथापि रज्यत्यास्वज्ञो । ही मोहस्य विजृम्भितम् ॥२॥ अल्पेनाप्यपराधेन । कुपिता वामलोचनाः । स्युरत्यंतप्रियस्यापि । प्रियस्य प्राणविघ्नदा ||३|| उक्तं च - संमोहयन्ति मदयन्ति विडंबयन्ति । निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समाचरन्ति ॥ १॥ किं च किंचिदिदानीं तत्कुर्वे येन तपस्विवत् ।। न भवामि सुदुर्ज्ञेय - स्त्रीचरित्रविडंबितः || २ || इति ध्यात्वा धनदस्तैरेव पदैर्व्यावृत्तः सुगुरुपार्श्वे प्रव्रज्य च स्वमसाधयत् । इति गहनतरं विभाव्य भव्या । धनदवदेणदृशां लसच्चरित्रम् | परिहरत रतिं हि तत्र नो चे-ज्जटिवदमंदशुचो भविष्यथोच्चैः ||१|| Jain Education International ।। इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ अतिगहनस्त्रीचरित्रे चंडाप्रचंडाविद्युल्लताकथा ।। For Personal & Private Use Only ******* प्र. २० स्त्रिषु परिहर्त्तव्या रतिः प्रश्नो. सटीका ॥१५१॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy