SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्र.२० धनदस्य विद्युल्लता दयिता * संशयः ।।१।। तस्मादहमितःस्थाना-दास्यमादाय वेगतः ।। क्वचिदन्यत्र गच्छामि । नात्र स्थानं सुखावहम् ॥२॥ * इति विमृश्य कृतकार्पटिकवेषो धनदः सारद्रव्यमादाय देशांतरमकरोत् । प्राप्तश्च कियद्भिर्दिनैः सुरपुरसंकाशं * संकाशपुरासन्नोद्यानं, उपविष्टश्च यावत्स तत्राऽशोकतरुतले तावत्पुरांतरादेत्य भानुदत्तश्रेष्ठी तं स्माह-धनद ! * * स्वागतं तेऽस्तु । समेहि मम वेश्मनि ।। यथा तव भवेत्तत्र । स्नानादिविधिरद्भुतः ।।१।। अहो कथमसौ मन्नाम * वेत्ति ? इति विस्मितो धनदः श्रेष्ठिना स्वसौधमानिन्ये । ततस्तं स्नानभोजनादि कारयित्वा श्रेष्ठ्यवोचत्-भद्र ! * विद्युल्लता नाम । सुरूपाऽस्ति ममांगजा ।। तस्याः पाणिं गृहीत्वा मे । पूरयाऽऽ मनोरथान् ॥१॥ धनदोऽप्य- * * वादीत्-श्रेष्ठिन्नदृष्टपूर्वस्य । कथं जानासि नाम मे । कथं चाऽज्ञातवंशस्य । ददासि निजनंदिनीम् ॥२॥ * श्रेष्ठ्यप्यूचे-वत्स ! पुत्रचतुष्कस्यो-परीप्सितशतैरियम् ।। अभ्यस्तशस्तविद्यौघा । तनया समजायत ।।१।। गताहनिशि* * तद्योग्य-वरसंप्राप्त्यभावतः ॥ चिंताचांतस्य मे साक्षा-द्वभूव कुलदेवता ॥२॥ प्रोचे च मुञ्च वत्स ! त्वं । चिंतां * प्रातः पुराबहिः ।। वनेऽशोकतरोर्मूले । निविष्टं यं समीक्षसे ॥३।। तस्याऽऽशु प्रांशुवंशस्य । गुणरत्नमहोदधेः ॥ * धनदस्य सुतां दद्या । यतः स उचितो वरः ।।४।। इत्युदीर्य तिरोधत्त । शम्पेव परमेश्वरी ।। अहमप्युदिते सूर्ये । * * तत्रागां त्वां व्यलोकयम् ।।५।। अतो जानामि ते नाम । तदिमां प्रार्थनालताम् ।। सुताविवाहपयसा । पल्लवोल्लासिनी * - कुरु ॥६॥ प्रपेदे धनदेनापि तद्गीः, श्रेष्ठिनापि शुभेऽह्नि कारितं द्वयोरपि सोत्सवं पाणिग्रहणं, दत्तश्च पृथगावासः, धनदोऽपि तत्र विद्युल्लतया दयितया समं प्रेमनिर्भरं विषयभरं सेवमानः पूर्वपत्नीयुगं चित्तादपि व्यस्मरत् । प्रश्नो. सटीका ॥१४॥ Jan Education Internet For Personal & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy